________________
प्रमाणपरिभाषागोलकादय इति चेन्न तदुपलब्धेः पूर्व तेषामनुपलम्भात्, न च योगपद्यनियमः कार्यकारणभावादिति नाऽयोग्यानुपलम्भोऽभावप्रत्ययं जनयितुमलम् , अयोग्यानुपलम्भाश्च स्वर्गादय इति न तन्मात्रेण शक्या निराकर्तुम् ; योग्यानुपलम्भस्तु तत्र नास्तीति सर्वैकमत्यं नातस्तत्प्रयुक्तस्तदभावः सिद्धिसौधमध्यारोदुमधीष्टे । एवमपि चाऽनुमानमेव शरणीकरणीयं स्यादिति नानुमानप्रमाणमनातिष्ठमानवार्वाक आसीत क्षेमेणेति ॥ २॥ अथाऽभावप्रामाण्यं भाट्टाभिमतमपाकर्तुमाह
उक्तग्राह्योऽभावः॥३॥ प्रत्यक्षपरोक्षलक्षणं द्विविधं प्रमाणमुक्तम्, तेन ग्राह्यः परिच्छेघोऽभावः, अभावविषयपरिच्छित्त्यै उक्तातिरिक्तमभावप्रमाणं नास्तीति भावः, तथाहि भूतलादि वस्तु घटादिप्रतियोगिना संसृष्टं प्रत्यक्षेण ग्रहीतव्यं भवति, असंसृष्टं वा । आये, प्रतियोग्यभावग्राहकत्वेनाऽभावप्रमाणस्य प्रवृत्तिविरोधः, प्रवृत्तौ वाऽप्रामाण्यं प्रतियोगिनः सद्भावेऽपि तत्पवर्तनात् । द्वितीयपक्षे, तु वैयर्थ्यमभावप्रमाणस्य, प्रत्यक्षेणैव प्रतियोगिनोऽभावप्रतीतिसिद्धेः। अथ न संसृष्टं नाप्यसंसृष्टं प्रतियोगिना भूतलादि प्रत्यक्षग्राह्यम् , वस्तुमात्रस्य प्रत्यक्षपाहात्वाङ्गीकारादिति चेन् । मैवम् , संसृष्टत्वासंसृष्टत्वयोः परस्परपरिहारस्थितिरूपत्वेन एकप्रतिषेधे अपरविधेरावश्यकत्वात् , तस्माद् भावाभावात्मकवस्तुग्रहणप्रवणेन प्रत्यक्षेणैवाऽभावप्रत्ययः समुत्थास्नुः ।
कचित्तु तद्धटं भूतलमिति स्मरणेन, तदेवेदं घटशून्यं भूतलमिति प्रत्यभिज्ञानेन, यो नास्त्यग्निमान् नाऽसौ भवति धूमवानिति तर्केण, नात्र धूमो धूमध्वजाभावादित्यनुमानेन, गृहे नास्ति देवदत्त इति शब्देन चाऽभावः परिच्छिन्नो भवति, नातो निर्विषयस्वादभावः प्रमाणपदवीमलमलङ्कर्तुम् । अपि चाऽयं प्रमाणपश्चक