________________
न्यायालङ्कारालङ्कृता। निवृत्तिरूपत्वेन निरुपाख्यत्वात् कथमधीशीत प्रमेयाभावं परिच्छेत्तुम् । न च प्रमाणपञ्चकाभावः प्रमेयाभावगोचरप्रत्ययं प्रादुकुर्वन् उपचारादभावप्रमाणमुच्यते इति सम्यगभिधानम् , सर्वथा भावार्थान्तरस्याभावस्याऽवस्तुतया तज्ज्ञानजनकत्वायोगात् , वस्तुन एव कार्योत्पादसामर्थ्यात् न ह्यवस्तु सकलसामर्थ्य विकलत्वात् शशविषाणवत् कार्योत्पादसमर्थम् , सामर्थे तु भावस्वरूपत्वानुषङ्गः । न च यत्र प्रमाणपञ्चकाभावस्तत्राऽवश्यं प्रमेयाभावज्ञानमुदति, परचेतोवृत्तिविशेषैर्व्यभिचारात् । किञ्च प्रमाणपञ्चकविरहो ज्ञातो वा तज्ज्ञाननिपुणः, अज्ञातो वा?। आये, कुतो ज्ञप्तिः?, तद्विषयप्रमाणपञ्चकाभावादिति चेद्, दुस्तराऽनवस्थातरङ्गिणी, प्रमेयाऽभावाचेदितरेतराश्रयावतारः। अज्ञातश्चेद्, न सम्भवति तस्य ज्ञापकत्वम् “नाऽज्ञातं ज्ञापकं नाम" इत्युक्ते, अन्यथाऽतिप्रसङ्गात् ॥
अक्षादेस्त्वज्ञातत्वेऽपि कारकत्वाद् ज्ञानहेतुत्वाऽविरोधः। न चाऽयमपि तथेति युक्तं निखिलसामर्थ्यशून्यत्वेनाऽस्य कारक' त्वाऽयोगात् । एतेन
“सात्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि" इति कुमारिलवचोप्यशोभम् , यत आत्मनोऽपरिणामः, सर्वथा ज्ञाननिर्मुक्त आत्मा, कथञ्चित् वा । आये, माता मे वन्ध्या, निरन्तरमहं मौनीत्यादिवत्स्ववचनविरोधः । सर्वथा ज्ञाननिर्मुक्तत्वे ह्यात्मनः कथमभावपरिच्छेदो लब्धोदयः। परिच्छेदे वा कथं ज्ञाननिर्मुक्तभावस्तस्य सर्वथा सम्भवति। अथ कथञ्चित् , तथाहि निषेध्यगोचरं ज्ञानमस्य नास्ति, अभावविषयं त्वस्ति; एवं तर्हि तज्ज्ञानमेवाऽभावप्रमाणं स्यानात्मा, तच्च भावान्तरस्वभावाभावग्राहकतयेन्द्रियजनितत्वात् प्रत्यक्षमेव । अन्यवस्तुविषयकज्ञानं तु प्रत्यक्षमेव, निषेधनीयघटादेरतिरिक्तस्य हि भूतलादेज्ञानमभावप्रमाणाख्यां प्रतिपद्यमानं वात्मकाभावपरिच्छेदकं त्विष्ट