________________
न्यायालङ्कारालङ्कृता ।
२३
कल्येन प्रतिबन्धोऽध्यक्षात् सिद्ध्येत् , तस्य सन्निहितमात्रविषयत्वात् । एवं चाऽनुमानमप्रमाणमिति प्रोचानेन चार्वाकेण तर्कप्रमाणं शरणीकुर्वता अनुमानादेव अनुमानप्रामाण्यं प्रत्याख्यातुं प्रगल्भितमिति स्पष्टं वारूढां शाखां परिखण्डयता भौतमन्वकारि ।
किश्चानुमानमात्रं प्रतिक्षेप्तुमभिप्रेतं चार्वाकेण, अतीन्द्रियार्थाऽनुमानं वा । आये सकलव्यवहारसमुच्छेदः, प्रतीयन्ते हि कुतश्चिदविनाभाविनो धूमाद्यर्थाद् वह्नयाद्यर्थान्तरं प्रतियन्तो लौकिका न तु सर्वस्मात्सर्वम् , द्वितीये, कथमतीन्द्रियप्रत्यक्षतरप्रमाणानामगौणत्वादिना प्रामाण्येतरव्यकस्थितिः । कथं वा परचेतसोऽतीन्द्रियस्य व्यापारविशेषेण प्रतिपत्तिः ॥ तदुक्तमस्माभिः" परस्याभिप्रायं कथमुपलभेताऽनुमितितो
विना तच्चार्वाकाननकमलमुद्रा समजनि । न शक्यः प्रत्यक्षात् परहृदयवृत्तेरधिगमो
विशेषाच्चेष्टाया इति यदि तदाऽऽपप्तदनुमा ॥१॥ कथं वाऽधीशीत स्वर्गापवर्गदेवतादि निराकर्तुम्, न चानुपलम्भात्तच्छक्यनिराकारम् , अनुपलम्भमात्रस्याऽभावप्रत्यायनसामर्थ्याऽयोगात् सतोऽपि वस्तुनः सामग्रीवैकल्येनाऽनुपलम्भभावात् , अन्यथा गृहाद् बहिर्गतश्चार्वाको वराको न पुनर्निवर्तेत, प्रत्युत पुत्रदारधनाद्यभावाऽवधारणात् सोरस्ताडं शोकविकलो विक्रोशेत् । स्मरणान्नैवमिति चेद् । न, तस्याऽभावपरिच्छेदाविरोधात् प्रत्यावृत्तोऽपि कथं पुनरासादयिष्यति, सत्त्वादिति चेत्, अनुपलम्भकालेऽपि तर्हि सन्तीति न तावन्मात्रेणाभावावधारणं स्यात् । तदैव समुत्पन्ना इति चेन्मैवमनुपलम्भेन हेतूनां बाधात् ; अबाधे वा स एव दोषः। अत एव प्रत्यक्षमपि न स्यात् तद्धेतूनां चक्षुरादीनामनुपलम्भवाधितत्वात् । उपलभ्यन्त एव