________________
प्रमाणपरिभाषा... अथ प्रत्यक्षमात्रं प्रमाणं कक्षीचक्रुषश्चार्वाकान् शिक्षयति
अर्थाव्यभिचारात् प्रत्यक्षवदितरप्रमाणसिद्धिः ॥२॥
चार्वाको हि अर्थाव्यभिचारादेव प्रत्यक्षस्य प्रामाण्यमभ्युपेयात् । कथमन्यथा स्नानपानावगाहनाद्यर्थक्रियासामर्थ्यशून्ये मरुमरीचिकानिचयपरिचुम्बिनि जलज्ञाने न प्रामाण्यं । तचाऽर्थप्रतिबद्धलिङ्गद्वारा समुन्मजतोऽनुमानस्यापि अर्थाव्यभिचारादेव किं नेष्यते ? । व्यभिचारिणोऽप्यस्योपलम्भाद. प्रामाण्यमिति चेत् , प्रत्यक्षस्यापि तिमिरादिदोषाद् निशीथिनीनाथयुगलावलम्बिनोऽप्रमाणस्य दर्शनात् , सर्वत्राऽप्रामाण्यमासज्येत । प्रत्यक्षाभासं तदिति चेदितरत्रापि समानमन्यत्र पक्षपातात् । - यत्तु गौणत्वादनुमानमप्रमाणं तदप्यसमीक्षिताभिधानम् , यतो गौणत्वं तत्र गौणार्थविषयत्वप्रयुक्तम् , प्रत्यक्षपूर्वकत्वनिबन्धनं वा. ऽभिप्रेतम् ? । न तावदाद्यम् , अनुमानस्याऽपि अध्यक्षवद् वा स्तवसामान्यविशेषात्मकार्थविषयत्वाभ्युपगमात् । न खलु कल्पितसामान्यार्थगोचरमनुमानमिष्यते सौगतवदार्हतैः। नापि द्वितीयम् , प्रत्यक्षस्यापि कस्यचिदनुमानपूर्वकत्वेन गौणत्वानुषङ्गात् , अनुमानात् साध्यार्थ परिच्छिद्य प्रवृत्तवतः पुंसः तदध्यक्षसमुद्भवात् , तर्कप्रमाणपूर्वकत्वाच्चाऽनुमानस्याऽसिद्धं प्रत्यक्षपूर्वकत्वम् । अपिच तर्कपमाणमन्तरेण अनुमानमप्रमाणं गौणत्वादित्यशक्यं वक्तुम् , गौणत्वं हि लिङ्गं नाप्रसिद्धप्रतिबन्धं सदनुमानस्यामामाण्यं प्रसाधायतुं प्रभवति, अन्यथातिप्रसङ्गात् । प्रतिबन्धप्रसिद्धियाऽनवयवेनाऽभ्युपेया, इतरथा यस्यामेवाऽनुमानव्यक्तौ अप्रामाण्येन गौणत्वस्य सम्बन्धः सिद्धः, तत्रैव गौणत्वं तदनुपापयेद् नान्यत्र तत्र तस्याऽसिद्धत्वात् । न चाऽसौ सा