________________
न्यायालङ्कारालङ्कृता ।
२१
नैयायिकाः । अर्थापत्त्या तानि पञ्चेति प्राभाकराः । अभावेन तानि षद्, इति भाट्टाश्च अपाकृताः । अग्रेतनसूत्रेण प्रत्यक्षेतरप्रमाणव्यवस्थापनेनाऽनुमानस्य स्मरणप्रत्यभिज्ञान तर्कागमानां च परोक्षविधीनां तत्तल्लक्षणसूत्रे प्रमाणत्वस्य प्रसाधयिष्यमाणत्वात् , प्रत्यभिज्ञायामुपमानस्याऽनुमानेऽर्थापत्तेश्वः तत्तल्लक्षणसूत्रेऽन्तर्भावयिष्यमाणत्वात् , तृतीयसूत्रे अभावस्य निर्विषयतोपदर्शनेन प्रामाण्यस्य निराकरिष्यमाणत्वाच्च । ___ येऽपि पुनः सम्भवैतिह्यप्रातिभरूपाः प्रमाणविधयः प्रावादिषत कैश्चित् ; तत्रापि समुदायेन समुदायिनोऽवगम इत्येवं रूपः सम्भवः सम्भवति खा- द्रोणः खारीत्वादित्याद्यनुमानान्तर्गत एव द्रष्टव्यः । ऐतिह्यं तु अनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्य्यमितीहोचुदृद्धा इति, यथा इह वटे यक्षः प्रतिबसतीत्यादि तदनिर्दिष्टप्रवक्तृकत्वेन सांशयिकत्वादप्रमाणम् ; आप्तप्रवक्तृकत्वनिर्णये तु आगम एव । प्रातिभं च यदि अद्य मे महीपतिप्रसादो भवितेत्याद्याकारमक्षलिङ्गादिव्यापारानपेक्षं मानसज्ञानं तदा सा• क्षात्करणरूपत्वात् प्रत्यक्षमेव । यत्पुनः प्रियापियप्राप्तिप्रभृतिफलेन सह गृहीतान्यथानुपपत्तिकस्य प्रसादोद्वेगादेर्लिङ्गात् समुत्तिष्ठति तदनुमानमिति सिद्धं प्रत्यक्षपरोक्षलक्षणप्रमाणभेदद्वये सर्वाणि प्रमाणान्यन्तर्गच्छन्ति । अनन्तर्गच्छत्तु नोत्सहिष्णु प्रमाणीभूयावस्थातुमिति । प्रमाणसङ्ख्यानं च स्वपराभिमतमुक्तमस्माभिः। तथाहिचार्वाको हि समक्षमेकमनुमा-युग् बौद्ध-वैशेषिको .
साङ्ख्यः शाब्दयुतं द्वयं तदुपमा-युक् चाक्षपादत्रयम् । सार्थापत्ति चतुष्टयं वदति तद् मानं प्रभाकृत् पुन
भट्टिः सर्वमभावयुक् , जिनमतेऽध्यक्षं परोक्षं द्वयम् ॥१॥ इत्येवं पराभिमतं प्रमाणसङ्ख्यानं सङ्ख्याभासं द्रष्टव्यम् ॥१॥