________________
अहम् । द्वितीयः परिच्छेदः।
अथ प्रमाण विभजतेतद् द्विविधं प्रत्यक्षं च परोक्षं च ॥१॥
तदिति प्रमाणम्, द्वे विधे प्रकारौ यस्येति द्विविधं प्रत्यक्षं च परोक्षं चेति, अक्षमिन्द्रियम् , प्रतिः प्रतिगतार्थः, इन्द्रियं प्रतिगतमिन्द्रियाधीनतया समुद्गतं ज्ञानं प्रत्यक्षमित्यर्थः। नन्वेवं मानसप्रत्यक्षे आत्ममात्रापेक्षप्रत्यक्षे च कथं प्रत्यक्षशब्दवाच्यतोपपत्तिरिति चेत् १ । सत्यं, व्युत्पत्तिप्रदर्शनं पुनरेतत् , प्रवृत्तिनिमित्तं तु साक्षात्करणत्वं वक्ष्यते, इति तत्पत्तिनिमित्तस्य तत्र सद्भावानोक्तानुपपत्तेरवकाशः । अथवा अश्नुते अक्ष्णोति वा व्यामोति सकलद्रव्य-क्षेत्र-काल-भावानित्यक्षो जीवस्तं प्रतिगतं साक्षादाश्रितमश्नाति भुङ्क्ते रूपादिसुखादिविषयान् अनेन आत्मा इत्यक्षं चक्षुरादि मनश्च तत्पतिगतं निमित्तभावेनाश्रितं ज्ञानं प्रत्यक्षम् , इति न काचिदनुपपत्तिः । ____ अक्षाणामिन्द्रियाणां परम् , इन्द्रियव्यापारानपेक्षं मनोव्यापारेणाऽसाक्षादर्थपरिच्छेदसाधकतमं ज्ञानं परोक्षम् । चकारद्वयं प्रमाणद्वयस्यापि प्रामाण्यं प्रति न कश्चिद् विशेष इति ज्ञापनार्थम् , तेन द्वयस्यापि तुल्यकक्षताऽवधेया नातोऽनुमानादिपरोक्षापेक्षया प्रत्यक्षप्रमाणस्य ज्येष्ठत्वमुपपत्तिमदिति ।।
विभागस्य चावधारणफलत्वात् द्वयमेवैतत् प्रमाणं न न्यूनं न वाऽधिकं तेन प्रत्यक्षमेकं प्रमाणमिति चार्वाकाः । प्रत्यक्षमनुमानं चेति द्वयम् इति सौगताः, काणादाश्च । सागमं तत्त्रयम् इति साङ्ख्याः । सोपमानानि तानि चत्वारि; इति