________________
न्यायालङ्कारालङ्कृता । साध्यसाधनभावेन प्रतीयेते ते परस्परं भिद्यते, यथा कुठारच्छिदे प्रतीयेते च साध्यसाधनभावेन प्रमाणाऽज्ञाननिवृत्याख्यफले । प्रमाणं हि करणाख्यं साधनं स्वपरव्यवसितौ साधकतमत्वात् , स्वपरव्यवसितिक्रियारूपाज्ञाननिवृत्त्यभिधं फलं तु साध्यं प्रमाणनिर्वय॑त्वादिति नैकान्ततः प्रमाणफलयोरभेदसिद्धिरिति सिद्धं भिन्नाभिन्नं प्रमाणात् फलम् ।
किञ्च प्रमातुरपि स्वपरव्यवसितिक्रियायाः कथश्चिद् भेदः, कर्तुः क्रियायाश्च साधकसाध्यरूपेणोपलम्भात् ; कर्ता हि साधकः स्वतन्त्रत्वात् , क्रिया च साध्या कर्तृनिष्पाद्यत्वात् । न च क्रिया क्रियावतः सकाशादभिन्नैव भिन्नैव वा प्रतिनियतक्रियाक्रियावद्भावभङ्गप्रसङ्गसमवतारादिति ॥
अत्राह कश्चित्- नन्वेष सकलः प्रमाणफलव्यवहारः सांकृत एव कल्पनाशिल्पिसमारचित एवेत्यर्थः, इति विफल एवायं प्रमाणफलावलम्बनः स्याद्वादिनां भेदाभेदप्रतिष्ठोपक्रम इति । सोयमुन्मत्तालापः, तद्यथा सांकृतप्रमाणफलव्यवहारवादिनाऽपि - सांकृतत्वं प्रमाण-फलयोः परमार्थवृत्त्या तावदेषितव्यम् , तच्चासौ प्रमाणतः स्वीकुर्याद्, अप्रमाणतो वा । न तावदप्रमाणात् , तस्याकिश्चित्करत्वात् । प्रमाणाचेदेवं तर्हि सांकृतत्वग्राहकं प्रमाणं सांवृतं वा, असांकृतं वेति वक्तव्यम् । आये कथं तस्मादपारमार्थिकात् पारमार्थिकस्य सकलप्रमाणफलव्यवहारसांतत्वस्य सिद्धिस्तथा च पारमार्थिक एवं समस्त प्रमाणफलव्यवहारः प्राप्तः। द्वितीये भग्ना खलु निखिलप्रमाणफलव्यवहारसांतत्वप्रतिज्ञा अनेनैव व्यभिचारातः तस्मात्पारमार्थिक एव प्रमाणफलव्यवहारः सकलपुरुषार्थसिद्धिहेतुः स्वीकर्त्तव्य इति ॥१२॥ इत्याचार्यश्रीविजयधर्मसूरीश्वरविहितायाः प्रमाणपरिभाषाया वृत्तिभूते मुनिश्रीन्यायविजयप्रणीते न्यायालङ्कारे प्रमाणसामान्य
स्वरूपनिरूपणप्रवणः प्रथमः परिच्छेदः ॥१॥