________________
.. प्रमाणपरिभाषार्भावप्रसङ्गात् , उपेक्षणीय एव च मुर्दाभिषिक्तोऽर्थों योगिभिस्तस्यैवार्यमाणत्वात् । अस्मदादीनामपि हेयोपादेयापेक्षयोपेक्षणीय एव भूयानर्थः; तन्नायं सर्वजनानुभवसिद्धिभगवतीप्रसादलब्धात्मोपेक्षणीय उपेक्षणीयोऽर्थ इति ॥ ११ ।। साम्पतं प्रमाणफलयोरेकान्तभेदाभेदाभ्युपगममपाकरोति
तयोर्भेदाऽभेदः ॥ १२॥ तयोः प्रमाणफलयोर्भेदोऽपि कथञ्चित् , अभेदोऽपि कथश्चिद् बोद्धव्यः, इतरथा प्रमाणफलव्यवहारानुपपत्तेः । न चोपादानबुद्ध्यादिना प्रमाणाद्भिनेन व्यवहितफलेन व्यभिचारः, उपादानबुद्ध्यादिकं हि प्रमाणस्य फलमप्यस्ति, प्रमाणाच सर्वथाभिन्नमप्यस्तीत्येकान्तभेदेऽपि नानुपपन्नः प्रमाणफलव्यवहार इति वक्तुं युक्तम्, उपादानबुद्ध्यादेरेकप्रमातृतादात्म्येन प्रमाणात् कथञ्चिदभेदस्यापि व्यवस्थानात् , प्रमाणतया परिणतस्यैवात्मनः फलरूपेण परिणतिप्रत्ययात् । यः प्रमिमीते स एवोपादत्ते जहाति उपेक्षते चेति सर्वसंव्यवहारिभिरस्खलितमनुभवात् । अपरथा इमे प्रमाणफले खकीये, एते पुनरन्यदीये इत्येवं स्वपरयोः प्रमाणफलव्यवस्थाविप्लवापत्तेः। ___ अथ यत्रैवात्मनि प्रमाणं समवेतं फलमपि तत्रैव समवेतमितिसमवायलक्षणप्रत्यासत्तितः प्रमाणफलव्यवस्थानानात्मान्तरे तदापत्तिरिति चेद् । न, समवायस्य नित्यत्वात्, व्यापकत्वात्, नियतात्मवत्सर्वात्मस्वपि अविशेषात् , न ततः प्रतिनियतप्रमातृसँम्बन्धप्रतिनियमसिद्धिरिति । तदित्थमुपादानबुद्ध्यादौ व्यवहितेऽपि फले प्रमाणतोऽभेदस्याप्युपपत्तेन तेन प्रकृतहेतोय॑भिचारक'लङ्कः। नापि अज्ञाननिवृत्तिस्वरूपेण प्रमाणतोऽभिन्नेन साक्षात्फलेन व्यभिचारः प्रकृतहेतोश्चिन्तनीयः, तस्यापि कथश्चिममाणाद् भेदेनोपपत्तेःसाध्यसाधनरूपेण प्रमाणफलयोर्व्यवस्थानात् । ये हि