________________
न्यायालङ्कारालङ्कृता ।
अज्ञानस्य संशयादेर्व्युदासो विध्वंसः स्वपरव्यवसितिरूपः प्रमाणस्य फलम्, तस्य प्रमाणेन प्रसाधनात् ; यद्धि येन प्रसाध्यते तत्तस्य फलम्, यथा प्रदीपस्य ध्वान्तसङ्घातविघातः । प्रसाध्यते च प्रमाणेन स्वपरपरिच्छेदलक्षणोऽज्ञानध्वंस इति तत्तस्य फलम् एतच्च सर्वप्रमाणानां फलमानन्तर्येण बोद्धव्यं उत्तरत्र पारम्पर्येणेति निर्देशात् ।। ९ ।।
"
प्रमाणं तावत् प्रत्यक्षं च परोक्षं चेति द्विविधं वक्ष्यते, तत्र प्रत्यक्षस्य पारमार्थिक-सांव्यवहारिकरूपौ द्वौ भेदौ, तत्र पारमार्थिकप्रत्यक्षस्य केवलज्ञान- मनःपर्यायज्ञाना - sवधिज्ञानानि त्रयः प्रकाराः, परोक्षं तु स्मृति - प्रत्यभिज्ञा तर्का - ऽनुमाना-ssगमैः पञ्चधा, तत्र पारमार्थिकप्रत्यक्षप्रकार भूतकेवलज्ञानस्य पारम्पर्येण फलं व्याहरति
-
१७
पारम्पर्येण केवलस्योपेक्षा ॥ १० ॥
निखिल वस्तुसाक्षात्कारिस्वभावस्य केवलज्ञानस्य परम्परं फलमुपेक्षा हानोपादानेच्छाविरहात् माध्यस्थ्यमौदासीन्यमि'त्यर्थः । सिद्धप्रयोजना हि केवलिनः सर्वत्रोदासीना एव भवन्ति हेयस्य संसारतत्कारणस्य हानात्, उपादेयस्य मोक्षतत्कारणस्य चोपादानात् ।। १० ॥
अथ परिशिष्टप्रमाणानां पारम्पर्येण फलमाचष्टे
शेषस्य हाना -ऽऽदानोपेक्षाधीः ॥११॥
केवलज्ञानव्यतिरिक्तस्योक्तलक्षणस्य परिशेषस्याऽशेषस्य प्रमाणस्य पारम्पर्येण फलम्, हानधीः, आदानधीः, उपेक्षाधीश्व ये वस्तुनि जहामीति बुद्धि:, आदेये वस्तुनि आददे इति बुद्धिः, उपेक्षणीये अर्थानर्थाप्रसाधकत्वेन आदानहानानर्हे च वस्तुनि उपेक्षे इत्येवं बुद्धिः । ननु नास्ति हेयोपादेयभिन्न उपेक्षणीयोऽर्थः, तस्यानुपादेयत्वेन हेयेन्तःपातादिति चेद् । न, अहेयत्वादुपादेय एवान्त