________________
प्रमाणपरिभाषाइच्छन् प्रधानं सत्वायैर्विरुद्धैर्गुम्फितं गुणैः । साख्यः सङ्ख्यावतां मुख्यो नानेकान्तं प्रतिक्षिपेत् ॥१०॥ विमतिः सम्मतिर्वापि चार्वाकस्य न मृग्यते । परलोका-ऽऽत्म-मोक्षेषु यस्य मुह्यति शेमुषी ॥ ११ ॥ तेनोत्पाद-व्यय-ध्रौव्यसम्भिनं गोरसादिवत् । त्वदुपज्ञं कृतधियः प्रपन्ना वस्तु वस्तुसत् ॥ १२ ॥
एवं सदसदेकान्तोऽपि प्रतिक्षिप्तो द्रष्टव्यः सर्वस्य वस्तुनः सदसदात्मकत्वात् । ननु कथमेकमेव वस्तु सच्चाऽसच्च भवितुमर्हति?, सत्त्वपरिहारेणाऽसत्त्वस्य असत्त्वपरिहारेण सत्त्वस्य च व्यवस्थानात् , अपरथा तयोरविशेषापत्तेः । ततश्च तद्यदि सत् कथमसत् ?, यदि चासत् कथं सदिति चेत् ? । उच्यते,यतो येनैव प्रकारेण सत्त्वं तेनैवाऽसत्त्वम् , येनैव चासत्वं तेनैव सत्त्वं यदि खीक्रियते, स्यात् तदा व्याघातः। यदा तु खद्रव्य-क्षेत्र-काल-भावरूपेण सत् , परद्रव्यक्षेत्रकालभावरूपेण चासत् तदा को विरोधावकाशः । तथाहि-यथा घटवस्तु स्वद्रव्यादिभिः सत्, एवं परद्रव्यादिभिरपि यदि स्यात् तदा तद् घटवस्त्वेव न स्यात् , परद्रव्यादिरूपेणापि सत्त्वात् तदन्यस्वात्मवत् । तथा यदि यथा परद्रव्यादिरूपेणाऽसत् एवं स्वद्रव्यादिरूपेणापि स्यात् , इत्थमपि नेदं वस्तु स्यात् खरविषाणवत् । तदेवं वस्तुस्वरूपान्यथानुपपत्तेः सदसदनेकान्तः कान्त एव । घटादिकं हि द्रव्यतः पार्थिवत्वेन सत् नाबादित्वेन; क्षेत्रत इहत्यत्वेन सत् न पाटलिपुत्रकादित्वेन; कालतो वासन्तिकत्वेन सत् न ग्रैष्मिकादित्वेन; भावतः श्यामत्वेन सत् न रक्तिमादिना, अन्यथा इतररूपापत्त्या तत्स्वरूपहानिप्रसङ्ग इति वज्रलेपायतेऽनेकान्तः ॥८॥
अथ प्रमाणस्य फलमभिधत्ते.. फलमज्ञानव्युदासः॥९॥