________________
न्यायालङ्कारालकृता । योगादसन् स्याद्वाद इति सम्यग्भाषितम्, नित्यानित्यपक्षविल. क्षणस्य पक्षान्तरस्याभ्युपगमात् । तथैव सर्वेषामनुभवसिद्धेः । वदन्ति च"भागे सिंहो नरो भागे योऽर्थो भागद्वयात्मकः ।
तमभागं विभागेन नरसिंहं प्रचक्षते" ॥ १ ॥ इति वैशेषिकैरपि चित्ररूपस्यैकस्यावयविनः स्वीकाराद् एकस्यैव पटादेः चलाचलरक्तारक्तातानावृतत्वादिविरुद्धधर्माणामुपलब्धेः । सौगतैरपि चित्रपटीज्ञाने नीलानीलयोर्विरोधानङ्गीकारात् । यदाह भगवान् श्रीहेमचन्द्रः"क्रमाऽक्रमाभ्यां नित्यानां युज्यतेऽर्थक्रिया न हि । एकान्तक्षणिकत्वेपि युज्यतेऽर्थक्रिया न हि ॥१॥
आत्मन्येकान्तनित्ये स्यान्न भोगः सुख-दुःखयोः । एकान्तानित्यरूपेऽपि न भोगः सुख-दुःखयोः ॥२॥ पुण्य-पापे बन्ध-मोक्षौ न नित्यैकान्तदर्शने । पुण्य-पापे बन्ध-मोक्षौ नानित्यैकान्तदर्शने ॥३॥ सत्त्वस्यैकान्तनित्यत्वे कृतनाशाऽकृतागमौ । स्यातामेकान्तनाशेऽपि कृतनाशाऽकृतागमौ ॥४॥ यदा तु नित्यानित्यत्वरूपता वस्तुनो भवेत् । यथात्थ भगवन्नैव तदा दोषोऽस्ति कश्चन ॥ ५॥ गुडो हि कफहेतुः स्याद् नागरं पित्तकारणम् । द्वयात्मनि न दोषोऽस्ति गुड-नागरभेषजे ॥६॥ द्वयं विरुद्धं नैकत्राऽसत्पमाणप्रसिद्धितः । विरुद्धवर्णयोगो हि दृष्टो मेचकवस्तुषु ॥ ७॥ विज्ञानस्यैकमाकारं नानाकारकरम्बितम् । इच्छंस्तथागतः प्राज्ञो नाऽनेकान्तं प्रतिक्षिपेत् ॥ ८॥ चित्रमेकमनेकं च रूपं प्रामाणिकं वदन् । यौगो वैशेषिको वापि नानेकान्तं प्रतिक्षिपेत् ॥ ९॥