________________
न्यायालङ्कारालङ्कृता । १३ इत्याह भाष्यकारो वात्स्यायनः । इत्यर्थोपपत्त्यङ्गेषु तेषु चतुर्यु प्रमाणस्वरूपमाविष्कृत्य साम्प्रतं तद्विषयं प्रादुष्करोति
उत्पाद-व्यय-ध्रौव्ययुक्तं वस्तु प्रमाणस्य विषयः ॥८॥
सर्वं हि वस्तु प्रतिक्षणमुत्तराकारस्वीकाररूपेणोत्पादेन, पूर्वाकारपरिहारलक्षणेन व्ययेन, उत्पादव्ययसाधारणत्रिकालवर्तिद्रव्याकाररूपेण ध्रौव्येण युक्तं सम्बद्धं प्रत्यक्षसिद्धम् । अयमर्थःसर्व खलु वस्तु अनन्तधर्मात्मकं प्रज्ञप्तं तथैव वस्तुस्वरूपोपपत्तेः, यदाह-"अनन्तधर्मात्मकमेव तत्त्वमतोऽन्यथा सत्त्वमसूपपादम्" इति । यच्चानन्तधर्मात्मकं न भवति नेदं वस्तु भवति, यथा गगनेन्दीवरम् । अनन्तधर्मात्मकत्वं चात्मनि तावत् साकार-निराकारोपयोगिता, कर्तृत्वम् , भोक्तृत्वम्, अमूर्त्तत्वम् , असंख्यातप्रदेशात्मकत्वम्, प्रदेशाष्टकनिश्चलत्वम् , जीवत्वमित्यादिकाः सहभाविधर्माः; हर्ष-विषाद-शोक-सुखा-ऽसुख-देव-नारक-तिर्यग-मानुष• त्वादयश्च क्रमभाविनोधर्माः।अधर्मास्तिकायादिष्वजीवपदार्थेषु असङ्खयेयप्रदेशात्मकत्वम् , गत्याद्युपग्रहकारित्वम् , मत्यादिज्ञानगोचरत्वम् , तत्तदवच्छेदकावच्छेद्यत्वम्, अवस्थितत्वम्, अरूपित्वम्, एकद्रव्यत्वम् , निष्क्रियत्वमित्यादयः। कलशे पुनः, आमत्वम् , पाकजरूपादिमत्वम्, पृथुबुध्नोदरत्वम् , कम्बुग्रीवत्वम्, जलादिधारणाहरणक्षमत्वम् , इत्यादिज्ञानज्ञेयत्वम्, नवत्वम् , पुराणत्वमित्यादयः। एवं शब्देऽपि उदात्ता-ऽनुदात्त-स्वरित-विकृत-संत-घोषवदघोषता-ऽल्पप्राण-महाप्राणतादितत्तदर्थप्रत्यायनशक्त्यादयचावसेयाः। एवं सर्ववस्तुषु नानानयमताभिज्ञेन तत्तत्पर्यायान् प्रती त्यानन्तधर्मात्मकत्वमवधेयम् । इत्थं च सर्व वस्तु तत्तधर्मात्मनोत्पद्यते,अन्यधर्मात्मना च विपद्यते, अन्वयिद्रव्येण च सदान्वितं तिष्ठति, यथा केयूरं भक्त्वा कटको विधीयते,