________________
१२
प्रमाणपरिभाषातथाहि- न हि ज्ञानसामान्यसामग्रीमात्रजन्यत्वलक्षणं स्वतस्त्वमुत्पत्तौ संभवति, प्रामाण्यस्य संशयादावपि तथात्वेन प्रामाण्यसमवतारात् । अयमर्थः-ज्ञान सामान्यसामग्रीसाम्येपि संशयादिज्ञानमप्रमाणम् , इतरच प्रमाणमिति विभाग केनापि निवन्धनेनाऽवश्यं भवनीयम् । ततो यथा संशयादावप्रामाण्ये दोषादिकमङ्गीक्रियते तथा प्रामाण्येऽपि तत्पत्यनीकं कारणं गुणरूपमवश्यं वक्तव्यम् । अन्यथा प्रमाणा-ऽप्रमाणविभागानुपपत्तेः, परतः प्रामाण्यमप्रामाण्यं तु स्वत इत्येवमपि पुनर्विपर्ययेण वदतो वादिनः को निरोधावकाशः। न्याय्यं चैतत् , न हि पटसामान्यसामग्रीमात्रं रक्तपटे हेतुः; तद् ज्ञानसामान्यसामग्रीमात्रं प्रमाणज्ञाने कथं हेतुभावन न्याय्याभ्युपगममिति । निर्णयः पुनः प्रामाण्यस्याऽभ्यासदशायां स्वत एव । तथाहि- अभ्यस्ते विषये जलमेतदिति ज्ञाने समुत्पन्ने ज्ञानस्वरूपनिर्णयसमय एव तद्गतं प्रामाण्यमपि निर्णीतं भवति, ज्ञानस्वरूपनिर्णयश्चात्मन एवेति तद्गतप्रामाण्यनिर्णयोऽपि तत एवेत्यर्थः । इतरथोत्तरक्षणे निःशङ्कप्रवृत्तेरनुपपत्तेः । अनभ्यस्ते तु विषये जलज्ञाने जाते जलज्ञानं मम जातमिति ज्ञानस्वरूपज्ञप्तावपि तत्मामाण्यावधारणमन्यत एव भवति । अपरथोत्तरकाले संशयाऽयोगात् भवति च संशयो जलज्ञानं मम जातं तत्कि जलमाहोस्चिन्मरीचिकेति, ततः कमलपरिमल-शिशिरमन्दपवनप्रचारप्रभृतिभिर्जलमवधारयता तत्र प्रामाण्यमवधारितं भवतीति नान्तरीयार्थदर्शनतः परत एव तत्र प्रामाण्यनिश्चयः । परत्र च खत एव प्रामाण्यनिर्णयान्नानवस्थादौस्थ्यावस्था । अनुमाने तु सर्वत्रापि सर्वथा समस्तसमस्तव्यभिचारारेके स्वत एव प्रामाण्यनिर्णयोऽव्यभिचारिलिङ्गसमुद्भवात् । न हि लिङ्गाकारं ज्ञानं लिङ्ग विना न च लिङ्गं लिङ्गिनमृते, इति सर्वमुपपन्नम् ॥ ७ ॥
"प्रमाण-विषय-फल-प्रमातृषु चतुर्पु विधिषु तत्त्वं परिसमाप्यते"