________________
न्यायालङ्कारालङ्कृता ।
११
यिष्यमाणत्वात् । न च प्रमाणमनधिगतार्थाधिगन्त्रेव भवति, एकत्र नीलादौ प्रमातृज्ञानानां प्रमाणत्वसद्भावात् तेषां चान्योन्यं गृहीतग्राहित्वात् । अपि चागृहीतग्राहि ज्ञानं भवत्येव न, सर्वबुद्धैः सर्व वस्तूनां सर्वदा ग्रहणात् ; सर्वबुद्धस्य चोपपादयिष्यमाणत्वात् । अधिकं चात्रोक्तमेव; अनुसन्धेयं चान्यत इत्येवमन्येषामपि पराभिमतप्रमाणलक्षणानामसाधुभावः स्वयमूहनीयःः विस्तरभयात्तु नेहोच्यते ॥ ६ ॥
1
अथ प्रमाणस्य स्वभावभूतं प्रामाण्यं तत्प्रत्यनीकमप्रामाण्यं चोत्पद्यमानं निर्णीयमानं च परापेक्षि स्वतो वेत्यारेकामधरीकर्तुं कीर्तयति —
प्रामाण्या-प्रामाण्ये परत उत्पदिष्णुनी, निर्णेये तु स्वतोऽपि ॥ ७ ॥
यद्यपि प्रमाणप्रकरणे तत्स्वभावभूतं प्रामाण्यमेव युक्तं 'चिन्तयितुं तथापि तत्प्रत्यनीकभावेनोपस्थितस्याप्रामाण्यस्यापि युक्तचिन्तनतया प्रामाण्यतुल्यकक्षतयोपादानं नौचितीमतिक्रामति । प्रमेयाव्यभिचारित्वं ज्ञानस्य प्रामाण्यम्, प्रमेयव्यभिचारित्वं चाप्रामाण्यम्, प्रमेयव्यभिचारित्वं च ज्ञानस्य स्वान्यग्राह्यापेक्षया ज्ञेयम्, स्वस्मिन् व्यभिचारस्यासम्भवात् । तथा च सर्व ज्ञानं स्वापेक्षया प्रमाणमेव, बहिरर्थापेक्षया तु किञ्चित् प्रमाणं किञ्चित् तदाभासमिति निगर्वः । एते च प्रामाण्या-प्रामाण्ये परतो ज्ञानकारणगत गुणदोषापेक्षया उत्पद्येते इत्येवंशीले उत्पदिष्णुनी; निर्णेये तु स्वतोऽपि अपिपदात्परत:पदानुकर्षः, अभ्यासदशायां स्वतो निश्चीयते, अनभ्यासदशायां तु परत इत्यर्थः । एतेन प्रामाण्यस्योत्पत्तिं निर्णयं च स्वत एवाभ्युपेयुषां मीमांसकानां मतिमोह एव ध्वनितः ।