________________
१०
प्रमाणपरिभाषा -
ज्येत । ननु कथं तर्हि चक्षुषा प्रमीयते इत्यादिव्यवहारः ? उपचारादिति ब्रूमहे, उपचारप्रवृत्तौ च सहकारित्वं निबन्धनम् । यदाहुः श्रीरत्नप्रभाचार्याः
“अर्थस्य प्रमितौ प्रसाधनपटु प्रोचुः प्रमाणं परे तेषामञ्जन - भोजनाद्यपि भवेद् वस्तु प्रमाणं स्फुटम् । आसन्नस्य तु मानता यदि तदा संवेदनस्यैव सा स्यादित्यन्धभुजङ्गरन्ध्रगमवत्तयैिः श्रितं त्वन्मतम् " ॥ १ ॥ इति उक्तं चास्माभिरपि -
"मानं शासति सन्निकर्षमपि ये कीदृक् प्रभो ! तद्भ्रमः स्वाज्ञानः स्वयमेष यत्किमपरज्ञानं सृजेत् कुम्भवत् । अन्येषां हि सृजेत्प्रकाशनमसौ दीपः प्रकाशात्मकः प्रत्यक्षे सहकारिताभ्युपगमं त्वेतस्य को वारयेत्" १ ॥ १ ॥ इति
“अविसंवादिज्ञानं प्रमाणम्" इति तपनबन्धुतनयाः, तदप्यसुन्दरम्, बौद्धा हि प्रत्यक्षा-नुमानरूपे द्वे प्रमाणे आमनन्ति, तंत्र न तावत् प्रत्यक्षस्याऽविसंवादित्वं संभवति, निर्विकल्पत्वेनाङ्गीकृतस्य तस्य स्वविषयानिर्णायकत्वेन संशय-विपर्यया ऽनध्यवसायात्मक समारोपविरोधित्वाभावात् । किंच, अविकल्पज्ञानस्य व्यवहारजननाऽनिपुणत्वे प्रमाणत्वेन किमायातम् १, उत्तरकालभाविनो व्यवहारधुराधौरेयाद् विकल्पात् तस्य प्रामाण्याभ्युपगमे याचितमण्डनन्यायानुप्रवेशः । वरं च व्यवहार हेतोविकल्पधिय एव प्रामाण्यमङ्गीकर्तुम् ।
अनुमानस्याऽपि तन्मतानुसारेण अपरमार्थभूतसामान्यगोचरत्वेन कुतस्त्याऽविसंवादित्वव्यवस्था ? |
" अनधिगतार्थाधिगन्तृ प्रमाणम्" इति भाट्टाः । तदप्ययुक्तम्- अनधिगतपदव्यवच्छेद्याभावात् । न च स्मरणव्यवच्छित्तिफलकमनधिगतपदम्, स्मरणस्य प्रमाणत्वेनोपपाद