________________
न्यायालङ्कारालङ्कृता । न चेन्द्रियसन्निकर्षोऽप्यर्थोपलब्धौ करणीभावधुरन्धरः। साधकतमं हि करणमुच्यते । यत्र हि प्रमात्रा व्यापारिते सत्यवश्यं कार्योदयः, अन्यथा पुनरनुदय एव तत् तत्र साधकतमम् , छिदायांदात्रवत् । न च नभसि नयनसन्निकर्षसद्भावेऽपि तद्गोचरः प्रत्यय आविर्भवति। न च रूपस्य सहकारिणस्तत्र विरहात्तदभाव इति युक्तं वक्तुम् , रूपस्यापि रूपशून्यत्वेन प्रमानुदयप्रसङ्गात् । न हि रूपे रूपमस्ति, निर्गुणत्वाद् गुणानाम् । न चावयवगतं रूपमवयविरूपोपलम्भे सहकारि भवेदिति प्रेर्यम् , व्यणुकावयविरूपोपलब्धेरनुपपत्तेः । न हि भवति तदवयवीभूतद्वयणुकत्रयवर्ति रूपमुपलब्धिगोचरः । अनुपलब्धस्यापि तस्य सहकारित्वोपगमे तप्तजलेऽपि कृशानुविषयचाक्षुषप्रत्ययः प्रादुःष्यात् , तदवयवेष्वनुपलभ्यमानस्यापि रूपस्य सद्भावात् । किञ्च, सुषुप्तावस्थायां शरीरव्यापिनो मनसः स्पर्शनादीन्द्रियेण तस्य च तूलिकादिना सन्निकर्षसत्त्वेऽपि स्पर्शादिसंवेदनानुदयोऽनुभवसिद्धः । न वाणुपरिमाणत्वेन मनसः शरीरव्यापित्वासम्भवात् तदानीं स्पर्शनादीन्द्रियसन्त्रिकर्षानुपपत्तिरिति वाच्यम् , इन्द्रियत्वेन हेतुना नयनवद् मनसोऽणुपरिमाणत्वप्रतिक्षेपात् । शरीरव्यापित्वे बाधकाभावाच । युगपज्ज्ञानोत्पत्तिप्रसङ्गस्तु तादृक्षक्षयोपशमविशेषेणैव निराकृतः, इति सन्निकर्षसद्भावेऽपि नावश्यं संवेदनोदयः; नापि तदभावे तदभाव एव, प्रातिभप्रत्यक्षाणाम् , आर्षसंवेदनविशेषाणां च तत्कालाविद्यमानविषयविषयितया असनिकर्षेऽपि समुत्पादात् , तन सन्निकर्षोऽन्वयव्यतिरेकसिद्धा
र्थोपलब्धिकारणतासिद्धिसम्बन्धबन्धुरः । व्यवधानेन कचित् फलानुकूलत्वेन साधकतमत्वस्वीकारे दधिभोजनादेरपि तत्पसङ्गः। __ अथ निमित्तत्वसामान्यपरं हेतुपदम् , तदा निमित्तत्वसामान्यस्य सर्वकारकसाधारणतया कर्तृ-कर्मादेरपि प्रमाणत्वमास