________________
प्रमाणपरिभाषा
तस्मादज्ञानदूरीकरणे तद्विरोधि ज्ञानमेव शरण्यमिति तदेव प्रमाणम् । हानादानोपेक्षास्वपि ज्ञानस्यैव प्रभुता, अतोऽपि तस्यैव प्रामाण्याऽधिकारः । स्वसंवेदनापटीयसश्च परावभासकत्वं सुतरामसम्भवम् । प्रकाशात्मा हि प्रदीपः परप्रकाशनप्रभुरित्यप्रकाशात्मा सन्निकर्षों घटादिवत्. परप्रकाशे कथं प्रगल्भेत? इति सिद्धं स्वपरप्रकाशस्वभावं ज्ञानमेव प्रमाणमिति । न च स्वसंविदितत्वमसिद्धं ज्ञानस्य, 'घटमहं वेमि' इत्यादौ कर्तृकर्मवज्ज्ञप्तेरप्यवभासमानत्वात् । न चाप्रत्यक्षोपलम्भस्याऽर्थदृष्टिः प्रसिद्ध्यति । न च ज्ञानान्तरात्तदुपलम्भसम्भावना,अनवस्थादिदोषावतारात् । नचानुभूतेरनुभाव्यत्वे घटादिवदननुभूतित्वप्रसक्तिः, ज्ञातुतित्वेनेवानुभूतेरनुभूतित्वेनाऽनुभूतेः । न चानुभूतेरनुभाव्यत्वं दोषः, अर्थापेक्षयाऽनुभूतित्वात् , स्वापेक्षया चानुभाव्यत्वात् , एकस्य स्वपितृ-पुत्रापेक्षया पुत्रत्व-पितृत्ववद् विरोधानवकाशात् । प्रयोगा अपि-ज्ञानं प्रकाशमानमेवार्थ प्रकाशयति, प्रकाशकत्वस्य तथैवोपपत्तेः, प्रदीपवत् । नेत्रादीनामपि भावेन्द्रियरूपाणामेव प्रकाशमानत्वात् प्रकाशकत्वं बोध्यमिति न हेतुदोषः । ज्ञानं प्रकाशात्मकम् , अर्थप्रतीतित्वात् , व्यतिरेके घटः । ज्ञानं स्वप्रकाशे स्वावान्तरजातीयानपेक्षि, वस्तुत्वात् , घटवत् । न च ज्ञानं स्वान्यप्रकाश्यम्, वस्तुत्वात् , घटवदिति युक्तम् , अप्रयोजकत्वात् । न हि घटस्य वस्तुत्वप्रयुक्तं परप्रकाश्यत्वमपि तु बुद्धिव्यतिरिक्तत्वप्रयुक्तम्। शक्यते हि वक्तुम्- 'अस्तु वस्तुत्वं मास्तु परप्रकाश्यत्वम्' इति । न च कश्चिद् बाधः । न च भवति विपक्षबाधकप्रमाणमन्तरेण हेतु-साध्ययोाप्त्यवधारणमिति नासिद्धं स्वसंविदितत्वं ज्ञानस्येति । एतेन "अर्थोपलब्धिहेतुः प्रमाणम्" इति प्रमाणलक्षणं परेषामसाधु भावनीयम् । तत्र ह्यर्थोपलब्धौ हेतुत्वं यदि करणत्वं विवक्षितम् , तर्हि तादृशकरणताया ज्ञानस्यैव सम्भवेन तदेव प्रमाणलक्षणत्वेन युक्तं निर्देष्टुम् । '