________________
न्यायालङ्कारालङ्कृता ।
ज्ज्ञानमनिश्चयात्मकत्वादनध्यवसायः । बौदैः प्रमाणत्वेनाभिमतं निर्विकल्पकं ज्ञानमप्यनध्यवसायात्मकमेव, तस्यापि विशेषोल्लेखाभावात् । परोक्षविषयेऽप्यनध्यवसायो भवति यथा कस्यचिदपरिज्ञातगोजातीयस्य पुंसः कापि विपिननिकुञ्ज सास्नामात्रोपदर्शनात् पिण्डमात्रमनुमाय को नु खल्विह प्रदेशे प्राणी स्यादिति । एवं संशय-विपर्ययावपि परोक्षयोग्यविषयौ द्रष्टव्यौ, अयं चानध्यवसायो नानाकोट्यनवगाहनाद् विपरीतैककोट्यनवलम्बनाच न संशयो विपर्ययो वेति ताभ्यां पृथगेव।।५।।
इह शास्त्रे येषां लक्षणं निर्दिष्टं तल्लक्षणशून्यास्तद्वदाभासमानास्तदाभासा वेदितव्याः; तथाहि- प्रमाणसामान्यलक्षणशून्यास्तद्वदाभासमानाः प्रमाणाभासाः, यथाऽज्ञानात्मकः सन्निकर्षादिः, ज्ञानात्मकः संशयादिश्च एवं प्रमाणविशेषाभासा अपि । वक्ष्यमाणात् पुनरत्र प्रमाणस्य फलात् , सङ्ख्यानात् , विषयाच विपरीतस्वरूपं फलाभासं, संख्यानाभासं, विषयाभासं च द्रष्टव्यम् । एतच्च सर्व सत्यस्वरूपप्रतिपत्तौ नानीषत्करप्रतिपत्तीत्युपेक्षितस्तन्निबन्धः सूत्रे भगवता सूत्रकारेण, वृत्तौ तु यथास्थानं सर्व दर्शयिष्यत इति । अथाचेतनसन्निकर्षादेः प्रामाण्यं पराभिमतमपाकर्तुमाह--
जडत्वेनाज्ञानाविरोधी सन्निकर्षादिरज्ञाननिवृत्त्यसामर्थ्याद् घटादिरिवाऽप्रमाणम्॥६॥
सन्निकर्षोऽज्ञानाविरोधी, जडत्वात् , घटवत् ; सन्निकर्षोऽज्ञाननिवृत्तिरूपफलासमर्थः, अज्ञानाविरोधित्वात् , तद्वत् । यो हि यं न विरुणद्धि नासौ तं निवर्त्तयति, यथान्धकाराविरोधी घटोऽन्धकारम् , विरुणद्धि चान्धकारं प्रकाशोऽतस्तमसौ निवर्तयति । इत्थं च जडः सनिकर्षोऽज्ञानेन विरोधमनादधानः कथमज्ञानं दूरीकुर्यात् ? अदूरीकुर्वतः पुनः कथमस्य प्रमाणपदवीपरिस्पर्शः?।