________________
प्रमाणपरिभाषा--- धप्रमाणलक्ष्ये व्याप्यवृत्तित्वेनाऽव्याप्तेः, लक्ष्यवृत्तेरबाधितत्वेनासम्भवस्य चासम्भवादवदातमेतत्प्रमाणलक्षणम् ॥ २ ॥ ___अथापरिज्ञातस्वरूपे संशयादावप्रमाणत्वं दुर्ग्रहमिति तस्य खरूपमाविष्कुर्वाणस्तावत् प्रथमं संशयं लक्षयतिअतस्मिन् तदतदवगाहि ज्ञानं संशयः ॥३॥
तद्रूपाभाववति वस्तुनि तद्रूपं तद्भिन्नरूपं चावगाहत इत्येवं शीलं ज्ञानं समिति समन्तात् शेत इवात्मा यस्मिन् सतीति संशयः, यथा स्थाणुर्वा पुरुषो वा । भवति हि स्थाणु-पुरुषसाधारणोर्ध्वतादिदर्शनेन, असति च तद्विशेषस्य स्कन्धकोटरादेः शिरः-पाण्यादेर्वा साधकबाधकप्रमाणे स्थाणुत्व-पुरुषत्वरूपनानाकोट्यवलम्बि संशयज्ञानमिति । एतेन सदसदात्मनि वस्तुनि सच्चाऽसच्चेतिप्रत्ययो न संशय इति सम्यक् प्रतियन्ति मनीषिण इति ॥ ३ ॥ अथ विपर्ययस्वरूपमाह
तदवगाहि विपयर्यः॥४॥ _ 'अतस्मिन्' इत्यनुवर्तते। 'ज्ञानम्' इति चेहोत्तरत्र च । तद्रूप
शून्यवस्तुनि तद्रूपमेवावगाहत इत्येवं शीलं ज्ञानं विपर्यासरूपत्वाद् विपर्ययः, यथा रजतत्वशून्यायां शुक्तिकायां चाकचिक्यादिना सादृश्यवशात् 'इदं रजतम्' इत्येवं रजताकारतया ज्ञानं भ्रमो विपर्ययोऽन्यथाख्यातिर्वोच्यते ॥ ४ ॥
अथानध्यवसायं दर्शयतिकिमित्यल्लेख्यनध्यवसायः ॥५॥
पथि गच्छतः पुंसः तृणस्पर्शादिगोचरमन्यत्रासक्तमनस्त्वात् 'एवंजातीयकमेवनामकमिदं वस्तु' इत्यादिविशेषानुल्लेखि किमपि मया स्पृष्टमिति किमित्युल्लेखेन समुद्भव