________________
न्यायालङ्कारालङ्कृता ।
द्रव्यार्थतः प्रत्यक्षेति चेत् ।, न द्रव्यद्वारा प्रत्यक्षत्वेन सुखादिवत् स्वसंविदितत्वाव्यवस्थानात् ,'ज्ञानेन घटं जानामि' इति करणोल्लेखानुपपत्तेश्च । न हि कलशसमाकलनवेलायां द्रव्यार्थतः प्रत्यक्षाणामपि कुशूल-कपालादीनामुल्लेखः समस्तीत्यलं बहुना।
धारावाहिकबुद्धिस्तु नाऽप्रमाणं तथाहि- एकस्मिन्नेव घटे 'घटोऽयम्' 'घटोऽयम्' इत्येवमुत्पद्यमानान्युत्तरोत्तरज्ञानानि धारावाहिकज्ञानानि । न, ह्येषां गृहीतग्राहित्वेनाऽप्रामाण्यम् , तस्य प्रामाण्याविरोधात् , अन्यथाऽवग्रहादिषु प्रामाण्यभङ्गप्रसङ्गात् । न ह्येषां भिन्नविषयत्वम् , अवगृहीतस्यैवेहनात् , ईहितस्यैवावायात्, अवेतस्यैवावधारणाच; इतरथाऽसामञ्जस्यापत्तेः । न चामीषां पर्यायापेक्षयाऽनधिगतविशेषावगमादपूर्वार्थत्वं वाच्यम् , एवं हि पर्यायापेक्षया धारावाहिकधियामपि गृहीतग्राहित्वं न संभवति, क्षणिकत्वात् पर्यायाणाम् । अथ द्रव्यापेक्षया गृहीतग्राहित्वं प्रामाण्यविरोधीति मतम् । तदप्यसम्यक् , द्रव्यस्य नित्यत्वेन गृहीतग्रहीष्यमाणावस्थयोर्भेदाभावात् , एवं च कं विशेषमाश्रित्य ग्रहीष्यमाणग्राहिणः प्रामाण्यं न पुनहीतग्राहिणः इति प्रेक्षणीयम् , प्रमाणत्वेनाङ्गीकृतस्यापि स्मरणस्य गृहीतग्राहित्वमेव स्वतत्त्वम् । तस्याऽपामाण्यं वदितारोऽपि
"न स्मृते स्थमाणत्वं गृहीतग्राहिताकृतम् ।।
अपि त्वनर्थजन्यत्वं तदप्रामाण्यकारणम्" ॥१॥ इत्यादिनाऽर्थाजन्यत्वमेवाप्रामाण्यबीजमाहुः । एतेन धारावाहिकज्ञानव्यवच्छेदका पूर्वार्थविशेषणघटितानि “स्वापूवार्थव्यवसायात्मकं ज्ञानं प्रमाणम्" इत्यादिप्रमाणलक्षणानि नन्नाटादीनामलक्षणानीति ध्येयम् ।
प्रमाता प्रमित्याश्रयः, ममितिश्च परिच्छेदः फलमिति न तयोः करणसाधनज्ञानपदवाच्यत्वाभावेन प्रमाणलक्षणातिप्रसङ्ग इति प्रमाणेतरत्राऽसञ्चारादतिव्याप्तेः, प्रत्यक्षपरोक्षलक्षणद्विवि