________________
प्रमाणपरिभाषात्रैव सूत्रे उद्दिष्टम् , इदानीमुद्दिष्टस्य तस्य लक्षणं निर्देष्टव्यम् । तच्च द्विधा भवति- सामान्यतो विशेषतश्च । तत्र सामान्यतः प्रमाणलक्षणनिर्देशोऽनन्तरमेव सूत्रम् । विशेषतस्तु “साक्षात्करणं प्रत्यक्षम्" इत्यादि वक्ष्यति । परीक्षाव्यापारं च षष्ठादिमूत्रमिति ॥१॥
तत्र प्रमाणसामान्य लक्षणमाह__ यथार्थज्ञानं प्रमाणम् ॥ २॥
प्रकर्षेण संशयादिव्यवच्छेदेन मीयते परिच्छिद्यते वस्तुतत्त्वं येन तत्पमाणम्, तदेव लक्ष्यम् । यथार्थज्ञानत्वं तस्य लक्षणम्, अर्यतेऽधिगम्यत इत्यर्थो विषयस्तमनतिक्रम्येति यथार्थमर्थाव्यभिचारि,यथावस्थितरूपेण विषयपरिच्छेदीति यावत्,तथाभूतं ज्ञानं प्रमाणम् , अन्यथा प्रमाणत्वानुपपत्तेः । अतथाभूतानि हि संशयादिज्ञानान्यप्रमाणानि । तथाच यथार्थपदेन संशय-विपर्ययाऽनध्यवसायानाम् , ज्ञानपदेन च जडात्मनः सन्निकर्षादेः स्वसमयप्रसिद्धस्य सन्मात्रगोचरस्याऽज्ञानरूपस्य दर्शनस्य च प्रमाणत्वव्यवच्छेदः। इत्थं चात्मव्यापाररूपमुपयोगेन्द्रियमेव प्रमाणमिति स्थितम् , तस्यैवाव्यवधानेनाऽर्थपरिच्छेदसाधकतमत्वात् । न ह्यव्याप्त आत्मा स्पर्शादिप्रकाशको भवति, निर्व्यापारेण कारकेश क्रियाजननाऽयोगात् , महणतूलिकादिसन्निकषे सुषुप्तस्यापि तत्पसङ्गाच । अन्ये तु लब्धीन्द्रियमेवार्थग्रहणशक्तिलक्षणं प्रमाणं मन्यन्ते, यदाहुः
"ततोऽर्थग्रहणाकारा शक्ति नमिहात्मनः । करणत्वेन निर्दिष्टा न विरुद्धा कथञ्चन" ॥१॥ इति
तदसत् , उपयोगात्मना करणेन लब्धेः फले व्यवधानात् , व्यवहितस्यापि करणत्वाभ्युपगमेऽतिप्रसङ्गात् , शक्तीनां परोक्षत्वाभ्युपगमेन करण-फलज्ञानयोः परोक्ष-प्रत्यक्षत्वोपगमे प्राभाकरमतप्रवेशाच्च । अथ ज्ञानशक्तिरप्यात्मनि खाश्रये परिच्छिन्ने