________________
न्यायालङ्काराल कृता ।। प्रमाणोपदेशमनेन सूत्रेण प्रतिजानीते सूत्रकारः। इत्थं चाभिधेयं साक्षादभ्यधात् , संबन्ध-प्रयोजने तु सूचापथे समतिष्ठिपदिति । . अत्र च प्रमाणं परिभाषितुं प्रतिजानानस्यापि ग्रन्थकारस्य प्रमाणस्वरूपोपदर्शनानन्तरं नयादिस्वरूपकीर्तनलेशः प्रसङ्गजनितो नौचितीमतिक्रामति । अथवा, परितो व्याप्य भाषणं परिभाषा प्रमाणाभिसम्बन्धिनयादिव्यापी प्रमाणस्योपदेश इति सर्वमवदातम् । इह च प्रमाणोपदेश उद्देशादिद्वारमन्तरेणाऽशक्यः कर्तुम् , अनुद्दिष्टस्य लक्षणनिर्देशानुपपत्तेः, अनिर्दिष्टलक्षणस्य च परीक्षितुमशक्यत्वात् , अपरीक्षितस्य चोपदेशाध्योगात् , अश्रद्धामलक्षालनाऽसम्भवाच्च, आह च न्यायभाष्यकारः " त्रिविधा चास्य शास्त्रस्य प्रवृत्तिरुद्देशो लक्षणं परीक्षा च" इति । तत्र नामधेयमात्रकीर्तनमुद्देशः,उद्दिष्टस्याऽसाधारणधर्मो लक्षणम् । तद्विपरीतो लक्षणाभासः । स च त्रेधा-अव्याप्तोऽतिव्याप्तोऽसम्भवी च तत्र लक्ष्यैकदेशत्तित्वमव्याप्तिस्तद्वानव्याप्तः, यथा गोःशाबलेयत्वम् । लक्ष्यालक्ष्यवृत्तित्वमतिव्याप्तिस्तद्वानतिव्याप्तः, यथा गोर्विषाणित्वम् । बाधितलक्ष्यवृत्तित्वमसम्भवस्तद्वानसंभवी, यथा तुरङ्गस्य विषाणित्वम् । यत्र चैषा दोषत्रयी नास्ति तत्सुलक्षणम् । न चात्र लक्षणलक्षणे उक्तदूषणकणोऽपि शक्यः प्रेक्षितुं सूक्ष्मचक्षुषा । न च गोरलक्षणे शाबलेयत्वादौ गोरसाधारणधर्मत्वेन गोलक्षणत्वानुषङ्गः, येन रूपेण लक्ष्यता तद्रूपसमनियतधर्मस्याऽसाधारणपदार्थत्वाद् गोत्वसामान्येन लक्ष्यीभूतस्य गोपदार्थस्य गोत्वसमनियतत्वाभावेन शाबलेयत्वादावसाधारणधर्मत्वाभावात् शाबलेयेतरत्रापि गोत्वसामान्यसद्भावादिति सर्वलक्षणव्यापि अलक्षणव्यावृत्तमुक्तलक्षणोऽसाधारणधर्म इत्येवं लक्षणलक्षणं सङ्गतिमङ्गीकरोति । विभागस्तु विशेषलक्षणस्यैवाङ्गमिति न पृथगुच्यते । लक्षितस्येदमित्थं भवति नेत्थमिति न्यायतः परीक्षणं परीक्षा । तत्र प्रमाणम