________________
प्रमाणपरिभाषा
कचिदभीष्टे वस्तुनि प्रचर्तमाना अभीष्टदेवताप्रणिपातपुरस्सरं प्रवर्त्तन्त इति चेत् । कुत एतदज्ञासी: । मङ्गलं तिरोऽकार्षीदाचार्य इति ग्रन्थादौ तदनिर्देशादिति चेत् । व्यभिचारादयमहेतुः, न हि मङ्गलव्यापित्वं तन्निर्देशस्य येन तदनुपलम्भात् तदभावावधारणं न्याय्यं स्यात् , तदभावेऽपि मनः-कायाभ्यां मङ्गलस्यावस्थानात् । अथवा 'प्रमाणपरिभाषा' इति प्रमाणपदाभिधानेन परममङ्गलभूतं परब्रह्मस्वरूपं केवलज्ञानात्मकं प्रमाणं परिभावयति भगवति ग्रन्थकृति कुतः शिष्टाचारव्यतिक्रमारेकालवोऽपि । अपिच, अथशब्दस्य माङ्गलिकत्वेन सूत्रे तस्याधिकारार्थस्यापि श्रवणमन्यार्थनीयमानकुसुमदाम-सलिलकलशादेर्दशनमिव मङ्गलायाऽपि कल्पत इति पश्यतो नाऽपरितोषकारणं परिपश्याम आयुष्मत इति ; सति च मङ्गले परिपन्थिप्रत्यूहमतिघातादंक्षेपेण शास्त्रसिद्धिरिति युक्तस्तदादर इति ।
ननु 'अधिकारार्थोऽथशब्दः' इत्युक्तम् , तत्र कोऽधिकारः। उच्यते-अधिकारः प्रस्तावः, तथा चैतच्छास्त्रेण प्रस्तूयमानस्य प्रमाणस्योपदेशो भावीति समवगतशास्त्राभिधेयाः प्रेक्षावन्तः प्रचिमार्गमुपदार्शता भवन्ति । प्रमाणं चार्थसिद्धिसाधकतमं सम्यगज्ञानम् , यन्निबन्धना हि लौकिका अलौकिकाश्च सर्वे व्यवहारा उपपत्तिपदवीमाविशन्ति, अतस्तदवश्यं जिज्ञासितव्यम् । तज्ज्ञानमेव चानेन शास्त्रेण साक्षात्प्रयोजनं श्रोतुः, ग्रन्थकर्तुस्तु बालोपकारः, द्वयोरपि परम्परं प्रमाणतस्तत्त्वाधिगमद्वारेण श्रेयःपथसमारोहे क्रमतः परमानन्दसिद्धिरेवेति प्रयोजनसंसूचनादनेन सूत्रेण निष्पयोजनत्वशङ्काऽनुत्थानोपहतैव । सम्बन्धोऽप्युपायोपेयलक्षणः सामर्थ्यादवगतो भवति- प्रमाणाधिगमो ह्युपेयम् , तदुपायश्चैतच्छास्त्रम्, अभिधेयं तु साक्षादभिधत्त एतत्सूत्रम् तथाहिपरिमिता भाषा परिभाषा, भाषा भाषणमुपदेशश्चेत्यनर्थान्तरम् , तथाच सझेपत उपदेशः परिभाषापदार्थः, स च प्रमाणस्य, इति