________________
२०७
न्यायालङ्कारालङ्कृता। एकस्मिन्ननन्तपदार्थप्रसङ्गः अनन्तधर्मात्मकत्वात् वस्तुनः इति भेदाभेदानेकान्त एव कान्तोऽभ्युपगमनीय इति ॥ ७॥
अथ चरममङ्गलावभासनपूर्वकं जगदनुगममादर्शयति-- सिद्ध जीवाजीवात्मकं जगत् ॥ ८॥
जगत् लोकालोकस्वरूपम्, जीवाजीवात्मकम्, जीवरूपो भावः, अजीवरूपश्च भावः, नान्योऽतः कश्चिद् भावः । ननु पुण्यपापासवसंवरबन्धनिर्जरामोक्षलक्षणान्यन्यान्यापि तत्वानि सन्ति भगवदभिहितानि प्रसिद्धानि, तथाहि
तीर्थकरत्वस्वर्गादिप्रशस्तफलाकाः प्रशस्ता जीवाभिसंसृष्टाः कर्मवर्गणाः पुण्यतत्त्वम् । विपरीतं पापतत्त्वम् । शुभाशुभकर्मबन्धहेतवो मिथ्यात्वादिविषया मनोवाक्कायव्यापारा आस्रवतत्त्वम् । मिथ्यात्वाऽविरतिप्रमादकपाययोगलक्षणबन्धहेतूनां सम्यग्दर्शनादिप्रतिपक्षनिरोधः संवरः, आत्मनः कर्मोपादान-निदानपरिणामाभावः संवर इत्यर्थः । जीवकर्मणोः क्षीराम्बुवदन्योन्याभिसंश्लेषो बन्धः, स च प्रशस्ताऽपशस्तभेदाद् द्वेधा । प्रकृति स्थिति अनुभाव-प्रदेशभेदाच चतुर्धा । तत्र प्रकृतिओनावरणस्वभावं ज्ञानावरणमित्यादि । स्थितिरध्यवसायकृतः कालभेदः । अनुभावो रसः । प्रदेशः कर्मदलसञ्चयः । तत्र च मूलप्रकृतिरष्टधा, ज्ञानावरणं दर्शना. वरणं वेदनीय मोहनीयमायुर्नाम गोत्रमन्तरायश्चेति । ..