________________
न्यायालङ्कारालङ्कृता । २०५ एतस्य लक्षणं तु अन्वर्थसमाख्ययैव चैतन्याभाव एव, जीवानां तु सर्वेषां सूक्ष्मेतराणां नियमात्काचिदपि चेतना विकसत्येव, अपरथाऽजीवत्वप्रसक्तेः, निजविहितातिकठोरकर्ममहिम्ना निगोदादौ गतापि जीवश्चेतना कक्षीकुर्वन्नेवाऽवतिष्ठते ।
तथाचाऽऽगमः
" सव्वजीवाणं पि अणं अक्खरस्स अणंततमो भागो निच्चुग्याडिओ चिइ, सो विअ जइ आवरिज्जा तेणं जीवो अजीवत्तणं पाविज्जा" इति ॥ ६ ॥ ___ साम्प्रतं द्रव्यषड्कं परिचाययति
तानि षड् द्रव्याणि ॥ ७ ॥ तानि, जीवन सहाऽजीवभेदा धर्माधर्माकाशकालपुद्गलाः षड् द्रव्याणि भगवदागमे प्रज्ञप्तानि ।
ये तु सत्तादिधर्मान् द्रव्येभ्यः पृथगभ्यधुः, नामी सुभाषितारः, द्रव्यात् अत्यंतविलक्षणे सत्वे द्रव्यस्यासत्त्वप्रसक्ते, सत्तायोगात्सत्त्वाभ्युपगमे खकुसुमादीनामपि तथाऽनुषक्तः, स्वरूपसतां भावानां च शिखण्डिना सत्तायोगेन किं कर्तव्यम् ? । उक्तं हि- . . : ..." स्वतोऽर्थाः सन्तु सत्तावत्सत्तया किं सदात्मनाम् ।
असदात्मसु नैषा स्यात् सर्वथाऽतिप्रसङ्गतः" ॥१॥
सत्तायोगात् प्राग् भावो न सन् नाप्यसन् , सत्तायोगे तु सन्निति चेत्तदप्यसत्, सदसद्विलक्षणस्य प्रकारान्तरस्या
-
--