________________
न्यायालङ्कारालकृता ।
२०३ स्पर्श-रस-गन्ध-वर्णवन्तः पुद्गलाः । शब्द-बन्ध-सौक्षम्यस्थौल्य-संस्थान-भेद-तमश्छायाऽऽतपाद्योतवन्तश्च । तत्र शब्दः पोढा-ततो विततो घनः शुषिरो घर्षों भासश्चेति । बन्ध. स्त्रेधा प्रयोगबन्धो विश्रसाबन्धो मिश्रश्चति । सोक्षम्य द्वेधा अन्त्यमापेक्षिकं च, तत्राऽन्त्यं परमाणुष्वेव, आपेक्षिक द्वयणुकादिषु, संघातपरिणामापेक्षं भवति, तद्यथा, आमलकाद् बदरमिति । स्थौल्यमपि तथैव द्विधा विज्ञेयम्, तत्राऽन्त्यं सर्वलोकव्यापिनि महास्कन्धे भवति, आपेक्षिकं पुनर्बदादिभ्य आमलकादिषु । संस्थानमनेकधा, दीर्घहस्वाद्यनित्थत्वपर्यन्तम् । भेदः पञ्चधा, औत्कारिकः, चौर्णिकः, खण्डः, प्रतरः, अनुतटश्वेति । तमश्छायातपोद्योताश्च परिणामजाः। सर्व एते स्पर्शादयः पुद्गलेष्वेव भवन्ति । - ननु तमःप्रभृतीनां पौद्गलिकत्वे किं मानम् ? उच्यते, तमः पुद्गलपरिणामः, दृष्टिपतिबन्धकारित्वात्, कुड्याद्वित, आवारकत्वात् पटादिवत् । छायाऽपि तथैव, शिशिरत्वात् आप्यायकत्वात् जलवातादिवत्, छायाऽऽकारेण परिणममानं प्रतिबिम्बमपि पोद्गलिकं साकारत्वात, आतपोऽपि तथैव तापकत्वादेः अग्निवत्, उद्योतश्च तथैव, आह्वादकत्वादेः, नीरवत् ।
पुद्गला द्विविधाः-अणवः स्कन्धाश्च, सङ्घाताद् भेदात् सङ्घातभेदाच स्कन्धा उत्पद्यन्ते, अणुः पुनर्भेदादेव, चाक्षुपाश्व स्कन्धा भेदसङ्घाताभ्यामिति ।