SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ न्यायालङ्कारालङ्कृता। १९९ यद् भगवान् हेमचन्द्रः--- "अभावे बन्धहेतूनां घातिकर्मक्षयोद्भवे । । केवले सति मोक्षः स्यात् शेषाणां कर्मणां क्षये ॥ १॥" ननु केवलिनोऽपि किश्चिनिबन्धन एव मोक्षः स्यात्, इतरथा केवलज्ञानानन्तरमेव मुक्तीभावनियमप्रसङ्गात्, एवमेवायुष्मन् ! अत एवाऽऽह 'अघातिकर्मक्षयापेक्षा' इति । वेदनीयादिकर्माणि सर्वज्ञत्वाप्रतिबन्धकत्वात् अघातीनि, तेषां क्षय रहदपेक्षा तत्समकालभाविनी मुक्तिः परमानन्दलक्षणा। - इतो हि भगवान् केवलज्ञानी अयोगिनामचरमगुणस्थानान्त्यसमये सर्वाः प्रकृतीः क्षयं नीत्वा एकसमय एव लोकाग्रभागं याति, सर्वार्थसिद्धिनामतो विमानतो द्वादशसु योजनेषु वर्तमानायाः सिद्धिशिलाया एकयोजनावसानेऽलोको वर्तते । ततश्च पूर्व लोकाग्रप्रदेशेऽकर्मका निर्लेपा मुक्तसंसारा अपुनरावर्तिनः परमकृतकृत्याः परमनिष्ठितार्थाः सिद्धा भगवन्तो भासन्ते । यदाहु:"मनोज्ञा सुरभिस्तन्वी पुण्या परमभासुरा । प्रारभारा नाम वसुधा लोकमूनि व्यवस्थिता ॥१॥ नृलोकतुल्यविष्कम्भा सितच्छत्रनिभा शुभा । .. ऊर्व तस्याः क्षितः सिद्धा लोकन्ते समवास्थिता" ॥२॥
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy