________________
न्यायालङ्कारालङ्कृता । परमानन्दो मुक्तिः ॥४॥ परमो निरतिशय आनन्दः सुखं कर्मभिर्मोचनाद् मुक्तिः, मोक्षः, अपवर्ग इति प्रसिद्धिः । असौ च केवलज्ञानिनोऽघातिकर्मक्षयापेक्षोत्पादा स्वयं वक्ष्यते सूत्रकृताऽधस्तात् ।
ननु जीवन्मुक्तिरत्र लक्ष्यत्वेनोशाना परमुक्तिी ? आये, उत्तरसूत्राऽसङ्गतिः, अन्त्येऽतिप्रसङ्गः, शरीरभृतामपि केवल. ज्ञानिनां परमानन्दसद्भावात् इति चेत्, न, द्वितीयपक्षसमाश्रयणात्, नचाऽतिप्रसङ्गः, अनन्तसुखस्य देहधारिणि विरहात्, एतस्यार्थस्य पूर्व विस्तरतः प्रतिपादितत्वादिति मा स्म प्रस्मरः । एवं च सति क्षीणाष्टकर्मणो योऽतिशयातीत आनन्दो निरवधिकं सुखं सैव मुक्तिरिति भावः । जीवन्मुक्तिलक्षणं तु शरीरावच्छिन्नं केवलज्ञानम् ।
ननु कथं तर्हि "कृत्स्नकर्मक्षयो मोक्षः" इति ?,
परमानन्दसाधकत्वात्, कृत्स्नकर्मक्षयाभावे - परमानन्दरूपाऽसम्पत्तेः।
ननु कथं खल्वनादिसम्बन्धधारणबन्धुराणि कर्माणि समर्हन्त्यपगन्तुम्, अनादिभावस्यापि विनाशाभ्युपगमे जीवोऽपि कदाचित् स्वरूपं परिजह्यात्, अनादित्वाविशेषाद् इति चेन, न, अनादित्वस्वीकारेऽपि नाशाभ्युपगमे विरोधानवकाशात्, कश्चैवं व्यधात्प्रतिबन्धम्, यद् अनादिना नैव विनष्टव्य.