________________
१९४
प्रमाणपरिभाषामिति, न ह्यसति विपक्षबाधकप्रमाणे कीदृशोऽपि विद्वान् कीदृशमपि प्रतिबन्धं क्षमते विधातुम् । अपि च विचित्रा भावाः, ये हि केचन सन्तोऽनादयो जीववत्सर्वकालमवतिष्ठमाना एवासते, केचित्पुनः प्रागभावादिवद्भवन्तोऽप्यनादयः प्रतिकूलसामग्रीयोगे विनश्यन्तोऽनुभूयन्त इति । अपचीयमानत्वेनापि हेतुना रागादिदोषाणां निरन्वयविनाशः सुलभ एवेत्यलमधिकेन ।
बाईस्पत्यादीनामभिप्रायेण पुना रागादयो न लोभादि कर्मोदयनिमित्ताः किंतु कफादिप्रकृतिहेतवः, तथाहि कफहेतुको रागः पित्तनिमित्तो द्वेषः, वातनिदानश्च मोहः, कफादयश्च सर्वदा सन्निहिताः, देहस्य तदात्मकत्वात् नातो वीतरागत्व. सम्भव इति न समीचीनम्, रागादेर्व्यभिचारितया कफादिहेतुत्वासिद्धेः, वातप्रकृतेरपि रागद्वेषयोः कफप्रकृतिकस्यापिद्वेषमोहयोः, पित्तप्रकृतेश्च मोहरोगयोरुपलब्धेः ।
एवं शुक्रोपचयनिबन्धन एव रागः इत्याद्यप्युच्छृङ्खलम्, अत्यन्तरमणीरमणीभवतः परिक्षीणशुक्रस्यापि रागोद्रेकदर्शनात् शुक्रोपच यस्य सर्वस्त्रीसाधारणाऽभिलाषजनकत्वेन कस्यचन कस्यांचनैव रागोद्रे कानुपपत्तेश्व, तस्मात्तथाविध कर्मैव विचित्रस्वभावतया तदा तदा तत्तत्कारणापेक्षं तत्र तत्र रागादिहेतुरिति । एतेन पृथ्व्यम्भोभूयस्त्वे रागः, तेजोवायुप्राबल्ये द्वेषः, जलवाय्वाधिक्ये मोहः, एत.