SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ न्यायालङ्कारालङ्कृता । १८९ तस्याऽपान्तरालगतावसत्वेन तत्पूर्वकल्पानुपपत्तेः । न चाशरी रिणो नियतम देशस्थानप्राप्तिपूर्वकः शरीरग्रहो युज्यते, नियामककारणाभावात् । यच्चेह बालशरीरस्य पूर्व शरीरान्तरं तदेव कर्म कार्मणशरीरपदार्थः इति, एवमन्यपि तद्गमकप्रमाणस्तोमा आकरग्रन्थतो वेदितव्या इति सिद्ध कर्म । तत्स्वरूपं पुरस्कार द् वक्ष्यामः ॥ २॥ ___ अथ संसारिजीवभेदानाह· पृथिव्यप्तेजो-वायु-वनस्पति-द्वि-त्रि-चतु - पञ्चेन्द्रियभेदात् नवधा॥३॥ नवधा तावत् संसारिजीवो भगवदागमे प्रज्ञप्तः । यद्यपि पृथिव्यादीनामकेन्द्रियत्वेन पञ्चधा संसारिजीवो भवितुमर्हति तथापि पृथिव्यादिभूतानामचेतनत्वकदाग्रहं निग्रहीतुं साक्षात भेदेनाऽमूनि निरादिक्षद् भगवान् सूत्रकारः । तत्र पृथिव्यादीनां स्पर्श केन्द्रियत्वम् ।.... . ननु पृथिव्यादीनां सचेतनत्वे किश्चित् प्रमाणमप्यस्ति ? अस्त्येष खल्वागमः प्रमाणम्, तत्प्रामाण्यं च आप्तप्रवक्तृत्वप्रसाधनेन प्रसाधितमेव पूर्वम् । ननु विशेषावासनिबन्धनं किश्चिद् लैङ्गिक मानं मनुषेन वा ?, ननु किमनेन मेनानेन ? आगमे शङ्कि. तविपर्यस्तचेतसः पुंसः लैङ्गिकेऽप्यनाश्वासात् । मूलाभावे. भित्तिनिर्मित्तिवञ्चानाश्वस्तागमस्य लैङिगके आश्वासस्य दुःस
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy