________________
न्यायालङ्कारालकृता। धान्यकोष्ठागारस्य यथा कदापि समुच्छेदः प्राप्नोति, तथैव कालस्यानन्त्यात् षण्मासपर्यन्तेऽवश्यमेकस्य भव्य. जीवस्य निर्वाणगमनात् सर्वस्यापि भव्यराशेः समुच्छेदः स्यादेवेति कः किमाह । नैवम् । अनन्तो हि भव्यराशिः। तथाहि इह यद् वृहदनन्तकेनानन्तं तत् स्तोकस्तोकतयाऽपचीयमानमपि नोच्छिन्नं भवति यथाप्रतिसमयं वर्तमानतापत्त्याऽपचीयमानोऽपि अनागतकालसमयराशिः, प्रतिसमयं बुद्धितः प्रदेशापहारेणापचीयमानो निखिलगगनप्रदेशराशिर्वेति कुतः भव्यराशेः सर्वथा समुच्छेदः १ । इदमत्रदंपर्यम् । तुल्यावेव किलातीतानागतकालौ । अतीतकालेन पुनरेक एव निगोदानन्ततमो भागोऽद्यापि भव्यानां सिद्धिसौधमध्यारुक्षत् तथैव भविष्यतापि कालेन तावन्मात्र एव भव्यानन्तभागः सिद्धिसम्पदमासादयन युक्तो घटमानकः, न हि हीनाधिक: भविष्यतोपि कालस्यातीततुल्यत्वात् । तत एवमपि सति न सर्वभव्यानामुच्छेदः सङ्गतः । सर्वेणापि कालेन तदनन्तभागस्यैव सिद्धिगमनसम्भवोपदर्शनात् । ननु भव्या अपि सन्तो यदि सर्वेणापि कालेन सर्वेपि सिद्धिं नाप्नुयुः , तदाऽमीषु अभव्यतः को विशेषः ?, अभव्या एव परमार्थतः स्युरित चेत्, उच्यते-भव्यः खल्वत्र सिद्धिगमनयोग्योऽभिप्रेतः, नतु यः सिद्धि यास्यत्येव, न च योग्यत्वसद्भावे सर्वोप सिध्येयरित्यस्ति नियमः, किन्तु सिद्धिगमनौपयिकसामग्रीसम