________________
प्रमाणपरिभाषाचेत् ? न, उभयथाप्युपलब्धेः उभयमेव जीवस्वभावमविशेषेण प्रतिपद्यामहे तथाहि-प्रथमोऽनाधनन्तसंयोगोऽभव्यानां द्रष्टव्यः द्वितीयोऽनादिसान्तसंयोगी भव्यापेक्षयाऽवधारणीयः। ननु जीवत्वसामान्येऽपि " अयं भव्यः अयमभव्यः " इति किंकृतोयं विशेषः ? । नच जीवत्वसामान्यपि यथा नारकतिर्यग्भावादयो विशेषाः तथा भव्याभव्यत्वविशेषो भवे. देवेति वदितव्यम्, कर्मजनिता हि इमे नारकभावादिविशेषाः । नतु स्वाभाविकाः भव्याभव्यत्वविशेषोपि यदि कर्मजनितस्तदा भवतु को निवारयिता ?, न पुनरेषोऽभ्युपगमः इति । उच्यते यथा हि जीवनभसोव्यत्वसत्त्वप्रमेयत्वादी समानपि जीवाजीवत्वादिना भेदः तथा जीवत्वसामान्येपि भव्याभव्यत्वकृतो विशेषो यदि जीवानां स्यात् तदा को दोषः ? । नन्वेवं भव्यभावो नित्योपविनाशी प्राप्नोति स्वाभाविकत्वात् जीवत्ववत् । इष्टत्वे मोक्षामावप्रसङ्गः, न हि भव्यभावे नित्यावस्थायिनि संभवति निर्वाणम् “सिद्धो न भव्यो नाप्यभव्यः" इति मुक्तेः। ' अत्राभिदध्मः। यथा खलु घटप्रागभावोऽनादिस्वभावजातीयोपि घटोवादे सनिधनो निभालितः, एवं भव्यत्वस्यापि ज्ञानतप:सचिवचरणक्रियोपायतोऽभावः स्यात् तर्हि का क्षतिः १ । नन्वेवं सति भव्यजीवशून्यः संसार आसज्येत, अभव्यैकसाम्राज्यं जगत् स्यात्। तथाहि स्तोकस्तोकाकृष्यमाणधान्यस्य