________________
न्यायालङ्कारालङ्कृता ।
१८५
अथ 'आदिविरहित:' इति द्वितीयो विकल्पः । अनादिरेव जीवकर्मणोः सम्बन्ध इति यदि तात्पर्यम्, तदप्ययौक्तिकम्, एवमपि मोक्षाभावदोषस्य तादवस्थ्यात्, यो ह्यनादिः संयोगः सोऽनन्तो दृष्टः यथा गगनात्मनोः, न ह्याकाशेन सह जीवस्य कदापि संयोगो निवर्तते एवं कर्मणाऽपि सहासी कथं निवर्तेत ?, कथं चातः सूपपादः स्याद् मुक्तभाव : ? इति ।
अत्रोच्यते
।
जीवकर्मणोः संयोगसन्तानोऽनादिरेव न चातोऽसावनम्त एव भवेदिति युक्तं वक्तुम्, अनादेरपि संयुक्तवस्तुसन्तानस्य सान्तत्वोपलम्भात्, यथा हि बीजाङ्कुरयोः सन्तानः, तथाहि - बीजाङ्कुरयोर्मध्येऽन्यतरदनिर्वर्त्तित कार्यमेवे यद् विहतं तत्रानयोर्हत एव सन्तानः । एवं कुक्कुट्यण्डकयोः, पितापुत्रयोरपि वदितव्यम् । यथा वा काश्चनोपलयोरनादिकालप्रवृत्तसन्तानभावगतोपि संयोगः ज्वलज्ज्वलनप रितापाद्युपायेन व्यवच्छिन्नो भवति, तथैव जीवकर्मणोरपि संयोगोऽनादिसन्तानगतोपि तपः संयमाद्युपायेन विदलितो भवति, नातो मोक्षानुपपत्तिः । नन्वेष जीवकर्मणोः संयोगः जीवनभसोरिवानादिः काञ्चनोपलयोरिव वा ? आये तत्प्र हाणायोगात् मोक्षानुपपत्तिः । द्वितीये सर्वजीवानां तत्महाणसम्भवेन मुक्तत्वप्रसक्तेः शून्यतानुषङ्गः संसारस्येति
२४
-