________________
१८०
प्रमाणपरिभाषावस्तु न भवति अकर्तृत्वात्, गगनकुसुमवत् । किश्चात्मा भोक्ता यद्यभिप्रेतस्तर्हि वक्तव्यं भुजिक्रियामसौ करोति न वा?; आधे किमपराद्धं तदन्याक्रियाभिः; द्वितीये स्ववचनविरोधः, प्रयोगस्तु, संसार्यात्मा न भवति भोक्ता, अकर्तृत्वात, मुक्तात्मवत्, अकर्तृभोक्तृत्वाङ्गीकारे च कृतनाशा-ऽकृताभ्यागमादिदोषप्रसङ्गः, तथाहि-प्रकृत्या कृतं कर्म, न च तस्याः फल नाभिसम्बन्धः, इति कृतनाशः । आत्मना च तन्न कृतमथ च फलंनाभिसम्बन्धः, इत्यकृताभ्यागमः । इति सङ्गतमव कर्तत्वमात्मीयम् । - बौद्धास्तु-"एकज्ञानसन्ततयः सत्त्वाः" इति वचनात् बुद्धिक्षणपरम्परामात्रमवात्मानमाम्नासिषुः न पुनमौक्तिककणनिक रनिरन्तरानुस्यूतकसूत्रवत्तदन्वयिनमेकम्, तच्चासत्, स्मरणाद्यनुपपत्तेः, न ह्यस्ति सम्भवः पूर्वबुद्धिगृहीतर्थे उत्तरबुद्धीनां स्मरणमाविः स्यात्, अन्यगृहीतेऽर्थेऽन्यस्मरणायोगात् । प्रलीने च स्मरणे का कथा प्रत्यभिज्ञायाः ?, सा हि स्मरणानुभवोभयसम्भवा, पदार्थक्षणसमुद्बुद्धप्राचीनवासनो हि पुमान् स एवायमित्यध्यवस्यति, स एव प्रत्याभिज्ञापदार्थः । एवमन्येपि भवभङ्गादयो दोषा ऊहनीयाः ।
यदूचे--
"कृतप्रणाशा-ऽकृतकर्मभोग-भव-प्रमोक्ष-स्मृतिभङ्गदोषान् । उपेक्ष्य साक्षात् क्षणभङ्गमिच्छन्न हो ! महांसाहसिकः परस्ते" ॥१॥ इति । ___अत्राहुर्वेदान्तिन:-नन्वस्तु जीवपदार्थः स पुनः प्रतिक्षेत्रं भिन्न इति का वाचोयुक्तिः ? तस्य सर्वत्रैकत्वात् ।
तदुक्तम्-. ...