________________
न्यायालङ्कारालङ्कृता ।
सर्वगतत्वं कुतः सिद्धम् साधनान्तराद् अत एव वा ? आये वैयर्थ्य द्रव्यत्वे सत्यमूर्तत्वादित्यस्य । अत एव चेत् ?, परस्पराश्रयावतारः।
न च प्रतिनियतपरिमाणवत आत्मनो मूर्तशरीरानुप्रवे. शेनात्मनो मूर्त्तत्वानुषङ्गः, यतः किमिदं मूर्त्तत्वम् ?, इयत्तावच्छिन्नपरिमाणयोगो वा, रूपादिसन्निवंशो वा ?, आये इष्टापत्तिः, अविभुद्रव्यस्य मूर्तत्वे सर्ववादिनामवैमतात् । न द्वितीयः, मनसो मूर्तानुप्रविष्टस्य रूपादिमत्त्वविरहण व्यभिचारात् । न च मूर्तमहत्त्वेनापि तत्प्रतिबन्धः, अप्रयोजकत्वात् । एवमात्मनो मूर्तद्रव्यत्वेऽचेतनत्वापत्तिरपास्ता, सहचारदर्शनमात्रेण व्याप्त्यसिद्धः, अन्यथा विभुत्वेपि गगनवत्तथात्वानुषक्तरित्यलमधिकेन । ___तथा "कूटस्थनित्य आत्मा" इति दर्शनमप्यसमञ्जसम्, यतो यथाविधः पूर्वदशायामात्मा, तथाविध एव यदि ज्ञानोत्पादसमये स्यात् स्यात्तदा कथं प्रागिवासौ पदार्थपरिच्छेदकः ?; प्रतिनियतस्वरूपाप्रच्युतिरूपत्वात् कौटस्थ्यस्य । पदार्थपरिच्छद तु प्रागप्रमातुः प्रमातृरूपतया परिणामात् कुतः कौटस्थ्यावस्था ?; एवं कर्ता साक्षादभोक्ताप्यसौ वेदितव्यः, द्रष्टुः कर्तृत्चे मुक्तस्यापि तत्प्रसङ्ग इति चेद् ? । न, मुक्तस्यापि क. तत्वेनेष्टत्वात्, ननु विषयसुखादेरकर्तेति चेत् कुतः स तथा ?, तत्कारणकर्मकर्तृत्वाभावादिति चेत् ?, तर्हि संसारी तत्कर्तृत्वात् विषयसुखादेः कर्ता स एव चानुभावता कथं न स्यात् ? । कथं चातः “अकर्ता निर्गुणो भोक्ता" इति प्रलापः शोभेत ? । भवति च यत्र स्वकर्मफलभोक्तृत्वं तत्र कर्तृत्वं, यथा कृषीवल: एवमास्मापि तथैव न्यायसहः । अपिच सांख्यमताभिमत आत्मा