________________
१७८
प्रमाणपरिभाषातथाहि नात्मा परममहापरिमाणाधारः, द्रव्यान्तरासाधारणसामान्यवत्वे सति अनेकत्वात्, कुम्भवत् तथा नात्मा तत्परिमाणाधारः दिक्कालाऽऽकाशान्यत्वे सति व्यत्वात् घटवत्, इत्यादि । शब्दगुणत्वप्रतिषेधेन दृष्टान्तस्य साधनवैकल्याच्च । . नन्वेवं शरीरपरिमाणभेदेनात्मपरिमाणभेदात् आत्मभेदापत्तिः परिमाणभेदे द्रव्यभेदनियमात् इति चेत् ? न, एकत्र घटे श्यामरक्तादिरूपभेदेपि घटाभेदवत् परिमाणभेदेपि आत्माऽभेदोपपत्तेः, विशिष्टभेदस्य शुद्धद्रव्याभेदापरिपन्थित्वात् । - यच्चाहु:-"सर्वगत आत्मा द्रव्यत्वे सत्यमूर्तन्वात् गगनवत, इति, तदध्यसारम्, यतोऽमूर्त्तत्वं मूर्त्तत्वाभावः, . तत्र किमिदं, मूर्त्तत्वं नाम यत्प्रतिषेधोऽमूर्तत्वं स्यात् ?; रूपादिमत्त्वं चेत् मनसा व्यभिचारः, तस्य द्रव्यस्य तथाविधमूर्त्तत्वविरहेपि सर्वगतत्वविरहात् । असर्वगतद्रव्यपरिमाणं चेत् किमसर्वगतद्रव्यं यत्परिमाणं मूर्तिर्वर्ण्यते ?; घटादिकमिति चेत् कुतस्तत्तथा ?, तथोपलम्भात् चेत्, किं पुनरसौ भक्तः प्रमाणम् ? एवमिति चेत् तद्वदात्मनोपि स एवासर्वगतत्वं. प्रसाधयतीति मूर्त्तत्वादसिद्धममूतत्वम् । तदसाधने न प्रमाणम् । "लक्षणयुक्त बाधासम्भवे तल्लक्षणमेव दूषितं स्यात् " इति न्यायात् । नथाचातो घटादावप्यसर्वगतत्वमतिदुर्लभम्, शक्यते हि वक्तुं घटायः सर्वगताः द्रव्यत्वे सत्यमूर्त्तत्वात् अन्तरिक्षवदिति । पक्षस्य प्रत्यक्षबाधो हेतोश्वासिद्धिरुभयत्राप्यविशिष्टा। ननु चात्मनः सर्वगतत्वात् तत्रास्त्यमूर्तत्वमसर्वगतद्रव्यपरिमाणसम्बन्धाभावलक्षणम्, न घटादौ विपर्ययात् इति । ननु चास्य