________________
न्यायालङ्कारालङ्कृता । १८१ "एक एव हि भूतात्मा भूत भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ।। १ ।। यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । सङ्कीर्णमिव मात्राभिभिन्नाभिरभिमन्यते ॥ २ ॥ तथेदममलं ब्रह्म निर्विकल्पमाविद्यया । कलुषत्वमिवापन्नं भेदरूपं प्रकाशते ॥ ३ ॥ ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पनि यस्तं वेद स वेदवित्" ॥४॥ इति ।
तदप्यसारम् । नारक-तिर्यगादयो हि अनन्ता जीवाःनानाविधशरीरमानसोपघातसम्पातैर्दुःखिता एव, तदनन्तभागवर्तिमस्तु सुखिनः, एवमनन्ता बद्धाः, तदनन्तभागवर्तिनस्तु मुक्ताः, तेषां च सर्वेषामेकत्वे न कोपि सुखी प्राप्नोति, बहुतरोपघाताऽन्वितत्वात्, यथा सर्वाङ्गरोगपरिग्रस्तोऽङ्गुल्येकदेशेन नीरोगो देवदत्तः । एवं न कोपि मुक्तः, बहुतरबद्ध. त्वात्, यथा सर्वाङ्गकीलितोऽङ्गुल्येकदेशमुक्तः। नात एकभावे सर्वात्मनां सुखादिकमुपपत्तिमदिति नानात्वमेव विचारसहम्, सर्वगतत्वाच्च गगनवत्, सुख-दुःख-बन्ध मोक्षादय आत्मनः कथमुपपद्येरन् ?, यत्र हि सुखादयः न तत् सर्वगतम्, यथा देवदत्तः। अपि च न च कर्ता, न च भोक्ता, न च मन्ता, न च संसारी जीवः स्यात् एकत्वात् सर्वजीवानाम्, यच्चैकम, न तस्य भवन्ति कत्तत्वादयः, यथा नभसः । ज्ञानदर्शनोपयोगलक्षणो जीवः, स चोपयोगः प्रतिदेहमुत्कर्षापकर्षभेदादनन्तभेदः, ततो जीवास्तदभेदादनन्तभेदा एव, एवं च लक्षणभंदाद् भिन्ना एव जीवाः कुम्भादिवत्, यच्च भिन्नं न भवति नामुष्य लक्षणभेदः, यथा नभसः, इति सिद्धं नानात्व