________________
न्यायालङ्कारालकृता ।
ननूत्पादादेः परस्परं भिन्नत्वे कथमेकं त्र्यात्मकम् ?, अभिन्नत्वेऽपि कथं तथा ? इति चेत्, मैवम्, कथञ्चिद् भिन्नलक्षणत्वेनामीषां कथञ्चिद् भेदोपपत्तः, तथाहि-उत्पादव्ययध्रौव्याणि स्याद् भिन्नानि, भिन्नलक्षणत्वात्,रूपादिवदितिः न च हेत्वसिद्धिः, असतो ह्यात्मलाभः, सतः सत्तावियोगः, द्रव्यरूपत्वेनानुवृत्तिश्चोत्पादादेः परस्परमसंकीर्णानि लक्षणानि सकललोकसाक्षिकाण्येव । नचामी भिन्नलक्षणा अप्यर्हन्ति परस्परानपेक्षा भवितुम्, गगना. रविन्दवदसत्त्वप्रसङ्गात् । इति सिद्धमुत्पादादिसंवलितं वस्तु ।
तथाचोक्तम्---- " घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥ १॥ पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः । अगोरसवतो नोभे तस्माद् वस्तु त्रयात्मकम्" ॥२॥ इति । पञ्चाशति च कविकुलपतितर्कोदधिश्रीरत्नप्रभसूरयः-- . " प्रध्वस्ते कलशे शुशोच तनया मौलौ समुत्पादिते पुत्रः प्रीतिमुवाह कामपि नृपः शिश्राय मध्यस्थताम् । पूर्वाकारपरिक्षयस्तदपराकारोदयस्तद्वयाऽऽधारश्चैक इतिस्थितं त्रयमयं तत्त्वं तथापत्ययात्॥१॥ इति
ननु " स्यानित्यो घटः " इत्यत्र द्रव्यरूपावच्छिन्ननित्यताशाली घटः इति बोधः । “स्यादनित्यो घटः" इत्यत्र पुन: पर्यायरूपावच्छिन्नानित्यत्ववान् घटः इति बोधः । अनित्यत्वं चात्र नित्यभेदः । न च द्रव्यरूपेण नित्ये वस्तुनि युक्तं नित्यभेदावस्थानम् , भेदस्य व्याप्यवृत्तितया स्वप्रतियोगिनि बाधात् इति चेत् , न, “मूले वृक्षः कपिसंयोगी न" इत्यवा