________________
१६०
प्रमाणपरिभाषा -
ननु चानेकान्तेपि विधिप्रतिषेधरूपा सप्तभङ्गी प्रवर्त्तते न वा?, प्रवर्तमानत्वेऽनेकान्तस्य निषेधकल्पनायामेकान्त एव प्राप्त इति तत्पक्षोक्तदोषानुषङ्गः । अप्रवर्त्तमानत्वे सर्वार्थसार्थस्य सप्तभङ्गीमङ्गभङ्गप्रसङ्गः इति चेत्, उच्यते- एकान्तस्तावद् द्विविधः, सम्यगेकान्तः, मिथ्यैकान्तश्च । एवमनेकान्तोपि द्वेधा, सम्यगनैकान्तः मिथ्यानेकान्तश्च । तत्र सम्यगेकान्तस्तावत् प्रमाणविषयीभूतानेकधर्मात्मकवस्तुनिष्ठैकधर्मगोचरो धर्मान्तराप्रतिषेधकः, मिथ्यैकान्तस्तु धर्मान्तरनिराकरणप्रावण्येिन प्रतिनियतधर्ममात्रपक्षपाती । एवं सम्यगनेकान्तः प्रामाणिकास्तित्वादिकानेकधर्मनिरूपणप्रवणः । मिथ्यानेकान्तश्च विरुद्धनानाधर्मपरिकल्पनरूपः । तत्र सम्यगेकान्तो नयः, मिथ्यैकान्तो दुर्नयः । सम्यगनेकान्तः प्रमाणम्, मिथ्यानेकान्तश्च प्रमाणाभासः । एवं च । सम्यगकान्ताने कान्तभेदावाश्रित्य प्रमाणनयार्पणाभेदात् स्यादेकान्तः, स्यादनेकान्तः, स्यादुभयः, स्यादवक्तव्यः, स्यादेकान्तश्रावक्तव्यश्च स्यादनेकान्तश्चावक्तव्यश्च स्यादेकान्तोऽनेकान्तश्रावक्तव्यश्चेति सप्तभङ्गी योजनीया । तत्र नयार्पणादेकान्तो भवति, एकधर्मगोचरत्वात् नयस्य प्रमाणाच्च । नेकान्तो भवति, - अशेषधर्मनिर्णयरूपत्वात् प्रमाणस्येति ।
यदि पुनरनेकान्तोऽनेकान्त एव स्यात् नत्वेकान्तः, तदैकान्ताभावे तत्समूहरूपस्याने कान्तस्याप्यभावप्रसक्तिः शाखाद्यभावे वृक्षाद्यभाववत् इति ।
भवति व नित्यत्वादिधर्मेष्वप्येषा सप्तभङ्गी निरूपयितव्या । तथाहि - स्यान्नित्यो घटः स्यादनित्यो घटः इति घटस्य हि द्रव्यरूपेण नित्यत्वम् पर्यायरूपेणानित्यत्वम्, एवं चोत्पादव्ययश्रव्ययुक्तं वस्तु सद्रूपेण भवितुमर्हति तदन्यथारूपेण वस्तुत्वानुपपत्तेः, अर्थक्रिया सामर्थ्य हि वस्तुनो लक्षणमालक्षयांवभूवांसो धीराः, अर्थक्रिया सामर्थ्यस्य चैकान्तनित्यानित्ये प्रागेव प्रति