________________
१५७ भङ्गः । घटादिरूपैकधर्मिविशेष्यकक्रमार्पितविधिप्रतिषेधप्रकारकबोधजनकवाक्यत्वं तल्लक्षणम् । क्रमाप्तिस्वरूपपररूपाधपेक्षयाऽस्तित्वनास्तित्वरूपो घट इति निरूपितप्रायम् । ___सहार्पितस्वरूपपररूपादिविवक्षायां "स्यादवक्तव्य एवं घटः" इति तुरीयो भङ्गः । घटादिविशेष्यकावक्तव्यत्वप्रकारकबोधजनकवाक्यत्वं तल्लक्षणम् ।
ननु कथमवक्तव्यत्वं घटस्य ? उच्यते- सर्वोपि शब्दो मुख्यभावेन न सत्त्वासत्वे युगपत्यतिपादयति तथाप्रतिपादने शब्दस्य शक्त्यभावात् सर्वस्य पदस्यैकपदार्थविषयत्वोपपत्तेः, तथाहि- अस्तिपदं सत्तावाचकं नासत्वं प्रतिपादयति, एवं नास्तीतिपदमसत्त्वाभिधायि न सत्तां बोधयितुमर्हति । ननु सर्वपदानामेकार्थत्वनियमे नानार्थकपदप्रसिद्धिः कथं निर्वहतीति चेत् अत्राहुः___गवादिपदस्यापि स्वर्गाद्यनेकार्थतया प्रसिद्धवतस्तत्त्वतो, ऽनेकत्वात् सादृश्योपचारादेव तस्यैकत्वेन व्यवहारात् । अन्यथा सकलार्थस्याप्येकशब्दवाच्यत्वापत्तेः । अर्थभेदेनानेकशब्दप्रयोगवैफल्यात् , यथैव खलु समभिरूढनयापेक्षया शब्दभेदाद् ध्रुवोऽर्थभेदः तथैवार्थभेदादपि शब्दभेदः सिद्ध एव, इतरथा वाच्यवाचकनियमव्यवहारविलोपप्रसङ्गादिति । __ ननु यथासमयं शब्दप्रवृत्तेः युगपत् सदसत्त्वयोः संकेतितः शब्दस्तदभिधायी भवतु ? इति चेत्तदप्यरम्यम् , सङ्केतस्यापि वाच्यवाचकशक्त्यनुरोधेनैव प्रवृत्तेः न नाम कचन वाच्यवाचकशक्त्यतिक्रमेण सङ्केतप्रत्तिदृष्टचरीति क्रमेणैव संङ्केतितपदस्याप्यर्थद्वयबोधनशक्तिसिद्धिः।।
पुष्पदन्तादिशब्दानामपि क्रमेणैवार्थद्वयप्रतिपादनसामर्थ्यमवसेयम् , "शतृशानचौ सत्" इति शतृशानचोः सङ्केतिकसत्पदवत् इति ।