________________
१५४ प्रमाणपरिभाषा__एवं च स्यादस्त्येव घट इत्यादौ घटत्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वस्यैवकारार्थस्य अस्तित्वे धात्वर्थेऽन्वयेन घटत्वसमानाधिकरणात्यन्ताभावाप्रतियोग्यस्तित्ववान् घट इति बांधः, घटत्वसमानाधिकरणस्तावदत्यन्ताभावो नास्तित्वात्यन्ताभावः किन्त्वन्याभावः तदप्रतियोगित्वस्यास्तित्वे सत्त्वात् । न चात्र घटत्वसमानाधिकरणात्यन्ताभावोऽस्तित्वात्यन्ताभावोपि शक्यते धर्तुम् , अस्तित्वाभावस्य नास्तित्वस्य घटे सत्वात् इति वाच्यम् , प्रतियोगिव्यधिकरणाभावाप्रतियोगित्वस्यैवकारार्थस्याभिप्रायेणोक्तदोषाभावात् तादृशाभाचे चोद्देश्यतावच्छेदकसामानाधिकरण्यमुद्देश्यबोधकपदसमभिव्याहारलभ्यम् । प्रकृते उद्देश्यतावच्छेदकं घटत्वं तत्सामानाधिकरण्यं प्रतियोगिव्यधिकरणाभावेऽन्वेति, उद्देश्यघटपदसमभिव्याहारात् । . एवं च घटत्वसमानाधिकरणप्रतियोगिव्यधिकरणाभायाप्रतियोग्यस्तित्ववान् घटः इति बोधः । तथा च नोक्तो दोषः घटसमानाधिकरणाभावपदेन अस्तित्वाभावस्य गृहीतुमशक्यत्वात् तथाविधाभावस्य प्रतियोगिनास्तित्वेन सामानाधिकरण्येन वैयधिकरण्याभावात् । .. ननु- स्याच्छब्देनैवानेकान्तबोधनेऽस्त्यादिवचनमनर्थकमिति चेत् न स्यात्पदेनानेकान्तस्य सामान्यतोऽवबोधनेपि विशेषरूपेण बोधनायास्त्यादिशब्दप्रयोगात् । तदुक्तम्
स्याच्छब्दादप्यनेकान्तसामान्यस्यावबोधने । शब्दान्तरप्रयोगोत्र विशेषप्रतिपत्तये ॥१॥ इति
यथा खलु वृक्षो न्यग्रोधः इति वृक्षत्वेन रूपेण न्यग्रोधस्य बोधनेपि न्यग्रोधत्वेन रूपेण न्यग्रोधबोधनाय न्यग्रोधपदप्रयोगः। __ स्याच्छब्दस्य द्योतकत्वपक्षे तु न्यायप्राप्त एवास्त्यादिप्रयोगः । अस्त्यादिशब्देनाभिहितस्यानेकान्तस्य स्यात्पदेन