________________
न्यायालङ्कारालङ्कृता। १५३ लत्वम् , तद्व्यापकः पुनरत्यन्ताभावः न तावत् नीलाभेदाभावः शक्यते धर्तुम् , कचित्कमले नीलाभेदस्यापि सद्भावात् । अपित्वन्याभावः, तत्पतियोगित्वं तत्र, अप्रतियोगित्वं पुनर्नीलाभेदे प्राप्तमिति कमलत्वव्यापकात्यन्ताभावाप्रतियोगिनीलाभेदवत्कमलमिति तत्र बोधः। . .
तदुक्तम्-- अयोगं योगमपरैरत्यन्तायोगमेव च । व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः ॥१॥ विशेषणविशेष्याभ्यां क्रियया यः सहोदितः । . विवक्षातोऽप्रयोगेऽपि तस्यार्थोऽयं प्रतीयते ॥२॥ व्यवच्छेदफलं वाक्यं यतश्चैत्रो धनुर्धरः ।। पार्थो धनुर्धरो नीलं सरोजमिति वा यथा ॥ ३ ॥ इति ।
स्यादेतत् स्यादस्त्येव घटः इत्यादावत्यन्तायोगव्यवच्छेद बोधकेन एवकारेण भाव्यम् , क्रियासङ्गतत्वात् । एवं च विवक्षितार्थासिद्धिः कुत्रचिद् घटे अस्तित्वाभावेपि तादृशप्रयोगसम्भवात् यथा हि कचित्कमले नीलत्वविरहेपि “नीलं सरोजं भवत्येव" इति प्रयोगः इति चेत् ? अत्राहु:
प्रकृतेऽयोगव्यवच्छेदबोधक एवकारोस्ति क्रियासङ्गतैत्रकारस्यापि कुत्रचित् अयोगव्यवच्छेदबोधकत्वदर्शनात् “ यथा ज्ञानमर्थ गृह्णात्येव" इत्यादौ ज्ञानत्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वस्यार्थग्राहकत्वे बोधः तत्राप्यत्यन्तायोगव्यवच्छेदबोधस्योपगमे "ज्ञानमर्थं गृह्णात्येवेतिवत्" ज्ञानं रजतं गृह्णात्येवेति प्रयोगप्रसङ्गः सकलज्ञानेषु रजतग्राहकत्वस्याभावेपि यत्किश्चिज्ज्ञाने रजतग्राहित्वभावेनैव ज्ञानं रजतं गृह्णात्ये. वेत्यन्तायोगव्यवच्छेदबोधकैवकारप्रयोगस्य निर्बाधात् । तद्वत प्रकृते क्रियासङ्गतोप्येवकारोऽयोगव्यवच्छेदबोधकत्वेनाभ्युपेयः इति ।
२०