________________
न्यायालङ्कारालकृता ।
१४९
सार्थम् " एकत्रवस्तुनि" इति । एकत्रापि जीवादिवस्तुनि विधीयमान निषिध्यमानानन्तधर्मपर्यालोचनयाऽनन्तभङ्गीप्रसक्तिव्यावृत्तये " एकैकधर्मपर्यनुयोगवशात् " इति । अनन्तेवपि धर्मेषु प्रतिधर्म पर्यनुयोगस्य सप्तधैव प्रवर्त्तमानत्वात् तत्मतिवचनस्यापि सप्तविधत्वमेवोपपन्नमित्येकैकस्मिन् धर्म एकैकैव सप्तभङ्गी साधीयसी एवं चानन्तधर्मापेक्षया सप्तभङ्गीनामानन्त्यं यदुपतिष्ठते तदभिमतमेव । प्रत्यक्षादिविरुद्धसदायेकान्तविधिप्रतिषेधकल्पनयापि प्रवृत्तस्य वचनप्रयोगस्य सप्तभङ्गीत्वानुषङ्गभङ्गार्थम् " अविरोधेन " इति । ___अत्र “ पर्यनुयोगवशात्" इति ग्रहणं प्रतिपाद्यप्रश्नानां सप्तविधानामेव सद्भावात् सप्तैव भङ्गा इति नियमसूचनार्थम् । ननु प्रश्नानां सप्तविधत्वं कुतः ? जिज्ञासानां सप्तविधत्वात् इतिब्रूमः प्राश्निकनिष्ठजिज्ञासाप्रतिपादकं वाक्यं हि प्रश्न इत्युक्तेः।
ननु जिज्ञासैव सप्तधा इति कथम् ? सप्तधा संशयानामु. मुत्पत्तेः। ननु तथापि संशयस्य सप्तविधत्वं कुत इति वक्तव्यम् ? तद्विषयीभूतधर्माणां सप्तविधत्वात् इत्येव गृहाण ।
ननु के ते सप्त धर्माः ? उच्यते ।
कथभित् सत्त्वम् १ कथश्चिदसत्वम् २ क्रमार्पितोभयम् ३ अवक्तव्यत्वम् ४ कथश्चित् सत्वविशिष्टावक्तव्यत्वम् ५ कथश्चिदसत्त्वविशिष्टावक्तव्यत्वम् ६ क्रमार्पितोभयविशिष्टावक्तव्यत्वम् ७ चेति । एवं च दर्शितधर्मविषयकाः सप्तैव संशयाः ।
अथेमे सप्त भङ्गाः। स्यादस्त्येव घटः इति विधिकल्पनया प्रथमो भङ्गः ॥१॥ स्यानास्त्येव घटः इति निषेधकल्पनया द्वितीयो भङ्गः॥२॥
स्यादस्त्येव स्यानास्त्येवेति क्रमेण विधिनिषेधकल्पनया तृतीयः ॥३॥
स्यादवक्तव्यमेवेति युगपद् विधिनिषेधकल्पनया चतुर्थः।४