________________
न्यायालङ्कारालङ्कृता । १४५ पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणः समभिरूढाभासः।
यथा- इन्द्रः शक्रः पुरन्दर इत्यादयः शब्दाः भिन्नाभिधेया एव भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवत् इति ।
एवमित्थं विवक्षितक्रियापरिणामप्रकारण भूतं परिणतमर्थमभिप्रयन् एवम्भूतः । समभिरूढः खलु सत्यामसत्यां च शकनादिक्रियायां देवराजार्थस्य शक्रव्यपदेशमभिप्रैति, पशोः सत्यामसत्यां च गतिक्रियायां गोव्यपदेशवत् तथारूढेः सद्भावात् । अयं पुनःशकनादिक्रियापरिणामक्षण एव शक्रादि मभिप्रेति न पूजनाभिषेचनक्षणे । न चैवंभूतनयाभिप्रायेण कश्चिदक्रियाशब्दोऽस्ति गौरश्च इत्यादिजातिशब्दानामपि क्रियाशब्दत्वात् गच्छतीति गौः आशुगामीत्यश्वः इति । शुक्लो नील इत्यादिगुणशब्दा अपि क्रियाशब्दा एव, शुचिभवनात् शुक्लः नीलनात् नीलः, इति । देवदत्तः यज्ञदत्तः इत्यादि यहच्छाशब्दा अपि क्रियाशब्दा एव देवा एनं देयासुरिति देवदत्तः, यज्ञे एनं देयात् इति यज्ञदत्तः । तथा संयोगिसमवायिद्रव्यशब्दाः क्रियाशब्दा एव दण्डोऽस्यास्तीति दण्डी, विषाणमस्यास्तीति विषाणीति । पश्चतयी तु शब्दानां प्रवृत्तिय॑वहारमात्रात् न निश्चयात् । क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपमाणस्तु एवम्भूतनयाभासः प्रतीति व्याघातात् । यथाविशिष्टचेष्टाहीनं घटाख्यं वस्तु न घटशब्दाभिधेयं घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवादित्यादिः।
एतेषु च नयेषु ऋजुमूत्रान्ताश्चत्वारोऽर्थप्रधानाः शेषास्तुत्रयः शब्दप्रधाना वेदितव्याः।
कः पुनरत्र बहुविषयो नयः को वाल्पविषयः ? इति जि. ज्ञासामुपशिशमयिषुणा प्रमाणनयतत्त्वालोकालझारीया सप्तमूत्री चेतसि निधेया ।