________________
१४४
प्रमाणपरिभाषा
द्विभागमभिप्रैति यद् द्रव्यं तज्जीवादि षोढेति । यः पर्यायः स द्वेधा-क्रमभावी-सहभावी चेति । एवं यो जीवः स संसारीमुक्तश्चेति, यः क्रमभावी पर्यायः स क्रियारूपोऽक्रियारूपश्चेत्यादि । यः पुनः कल्पनारोपितद्रव्यपर्यायप्रविभागमभिप्रैति, स व्यवहाराभासः, प्रमाणबाधितत्वात् , न हि कल्पनारोपित एव द्रव्यादिप्रविभागः, स्वार्थक्रियाहेतुत्वाभावानुषङ्गात् , नभोम्भोजवत् । व्यवहारस्य चाऽसत्यतायां तदानुकूल्या प्रमाणानां प्रमाणभावो न स्यात् , इतरथा स्वप्नादिविभ्रमानुकूल्येनापि तेषां तदनुषङ्ग इति । एतदाभासश्च चार्वाकमतम् ।
.. ऋजु प्राञ्जलं वर्तमानक्षणस्थायि पर्यायमानं प्राधान्यतः सूत्रयन्नभिप्रायः ऋजुमूत्रः । यथा समस्ति सम्पति सुखक्षणः इति सतोपि द्रव्यस्यानर्पणात् अतीतानागतक्षणयोश्च नष्टानुत्पन्नत्वेनासम्भूतेः। न चैवं लोकव्यवहारविलोपप्रसङ्गः, नयस्यास्यैवंविषयमात्रप्ररूपणात् , लोकव्यवहारस्तु नयचक्रसाध्यः ___ यस्तु बहिरन्तर्वा द्रव्यं सर्वथा प्रतिक्षिपत्यखिलार्थानां प्रतिक्षणं क्षणिकत्वाभिमानात् स तदाभांसः, प्रतीत्यतिक्रमात् , बाधविधुरो हि प्रत्यभिज्ञानादिप्रत्ययो बहिरन्तश्चैकं. द्रव्यं पूर्वोत्तरविवर्त्तवर्ति प्रसाधयन्नशक्योऽपह्नोतुम् । एतन्नयाभासस्ताथागतमतमिति । कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः । यथा-बभूव भविष्यति भवति रत्नसानुः । अत्रातीतादिकालत्रयभेदात् सुमेरोर्भेदं शब्दनयः प्रतिपद्यते । द्रव्यरूपतयाऽभेदे पुनरदसीये गजनिमीलिकामालम्बते । एतच्च कालभेदे उदाहरणम् । करोति क्रियते घट इति कारकभेदे, तटस्तटी तटमिति लिङ्गभेदे, दाराः कलत्रमित्यादि सङ्ख्याभेदे, एहि मन्ये रथेन यास्यसि यातस्ते पितेति पुरुषभेदे, सन्तिष्ठते अवतिष्ठते इत्युपग्रहभेदे इति ।
कालादिभेदेन ध्वनेरर्थभेदमेव समर्थयमानः शब्दाभासः,