________________
न्यायालङ्कारालकृता। धर्मव्य-धर्मिय-धर्मधर्मिरूपत्रयस्यैकान्तिकभेदाभिप्रायो नैगमाभासो नैगमदुनय इत्यर्थः, सर्वथार्थान्तरत्वे धर्मिणि धर्माणां वृत्तिविरोधात् । नैयायिक-वैशेषिकदर्शनं चैतदाभासतया प्रत्येतव्यम् । __ सङ्ग्रहीतपिण्डितार्थमात्रग्राही सङ्ग्रहः । अत्र सङ्ग्रहीत महासामान्यम् , पिण्डितं तु सामान्यविशेषः । तत्र महासामान्य सत्त्वम् , सामान्यविशेषः पुनद्रव्यत्वादि । एवं च निःशेषविशेषेष्वौदासीन्येन शुद्धद्रव्यं सन्मात्रमभिमन्वानः, द्रव्यत्वादीन्याद्रियमाणस्तद्विशेषानुपेक्षमाणश्च सङ्ग्रहः । अत्राद्यः परः सङ्ग्रहउच्यते, परसामान्यमात्राङ्गीकरणात् । चरमश्वापरः सङ्ग्रहः, अपरसामान्यद्रव्यत्वावलम्बनात् । तत्राद्योदाहरणं विश्वमेकं सदविशेषात् इति, एवं ह्युक्ते सदितिज्ञानाभिधानानुवृत्तिलिङ्गानुमितसत्ताकत्वेनैकत्वमशेषार्थानां सङ्गृह्यते । ____ निराकृताशेषविशेषस्तु सत्ताद्वैताभिसन्धिः परसङ्ग्रहाभासो ज्ञेयः, दृष्टेष्टबाधनात् । एतदाभासता चाऽद्वैतवादिदर्शनानां सा
ङ्ख्यस्य च । __ द्वितीयोदाहरणं यथा-द्रव्यत्वाभेदात् एकं द्रव्यं धर्मादीति, द्रव्यामित्युक्ते हि भूतभविष्यद्वर्त्तमानकालवृत्तिविवक्षिताविवक्षितपर्यायद्रवणशीलानां जीवाजीवतद्भेदप्रभेदानामेकत्वेन सङ्ग्रहः । तथा घट इत्युक्ते सकलघटव्यक्तीनां घटत्वेनैकत्वसंग्रहः इति ।
सामान्यविशेषाणां सर्वथार्थान्तरत्वाभिप्रायोऽनर्थान्तरत्वाभिप्रायो वाऽपरसङ्ग्रहाभासः प्रतीतिविरोधात् इति ।।
सङ्ग्रहगृहीतार्थानां विधिपूर्वकमवहरणं विभजनं भेदेन प्ररूपणं व्यवहारः । परसङ्ग्रहेण हि सद्धर्माधारतया सर्वमेकत्वेन सदिति सङ्ग्रहीतम् । व्यवहारस्तु तद्विभागमाभिरैति, यत्सत्तद् द्रव्यं पर्यायो वेति । तथैवापरसङ्ग्रहः सर्वद्रव्याणि द्रव्यमिति सर्वपर्यायांश्च पर्याय इति सगृह्णाति । व्यवहारः पुनस्त