________________
न्यायालङ्कारालङ्कृता ।
१४१
अथ नयभेदानाह—
नैगमसङ्ग्रहव्यवहारर्जुस्त्रशब्द समभिरूढैवम्भूतैः सप्तघा ॥ ६ ॥
नैगमादिभेदेन सप्तविधं नयमामनन्ति जैनाः । अत्राद्यात्रयोद्रव्यार्थिकाः । शेषाः पुनः पर्यायार्थिकाः प्रोच्यन्ते । तत्र द्रव्यमेवार्थो विषयो यस्यास्त्यसौ द्रव्यार्थिकः । पर्याय एवार्थो विषयो यस्यास्त्यसौ पर्यायार्थिकः । एतावेव द्रव्यास्तिक-पर्यार्यास्त इति द्रव्यस्थित पर्यायस्थितौ इति द्रव्यार्थ पर्यायाथ इति चाहुः । गुणस्य पर्यायरूपत्वेन गुणविषयस्य गुणार्थिकस्यापि पर्यायार्थिकरूपत्वाविरोधः । एवं सामान्यविशेषयोर्दव्यपर्यायरूपत्वेन तद्विषयसामान्यविशेषार्थिकयोरपि यथायथं तदव्यपदेशः सङ्गत एवेति सङ्क्षेपतो नयस्य द्वैविध्यमावेदि - तम् । तस्यैव चायं सप्तविधो विभागः । विस्तरस्त्वशक्यः प्रवक्तुम् । उक्तं हि—
i
" जावईया वयणपहा तावईया चेत्र हुंति नयवाया" इति । तत्र असिद्धार्थसङ्कल्पमात्रावलम्बी नैगमो नयः । तथाहि
निगमो विकल्पः सङ्कल्पः इत्यर्थः, तत्र भवः तत्प्रयोजनो वा नैगमः, स च त्रेधा । भूतभाविभवत्कालभेदात् । तत्र अतीतस्य वर्त्तमानवत्कथनं यत्र स भूतनैगमः । यथा - तदेवाद्य दीपोत्सवपर्व, यत्र श्रीमहावीरपरमात्मा मुक्तिमापत् । भाविनि भूतवदुपचारो यत्र स भाविनैगमः, यथा - अर्हन्तः सिद्धतां प्राप्ता एव । कर्त्तुमारब्धमीषन्निष्पन्नं वा वस्तु निर्दिश्यते यत्र स भवन्नैगमः । यथा- पच्यते ओदनः ।
यद्वा नैके गमा बोधमार्गा यस्यासौ नैगमः, पृषोदरादित्वात् ककारलोपः ।