________________
प्रमाणपरिभाषा‘नन्वेष नयःप्रमाणतः पृथग्लक्षणेन कथं निर्देशपथमानीतः?; यथार्थज्ञानरूपत्वेनास्य प्रमाणलक्षणेनैव चारितार्थ्या, सत्यम् , इदं पुना रहस्यम् , प्रमाणं खलु यथार्थज्ञानात्मकं भवति, नयस्तु यथार्थैकदेशज्ञानात्मकः, इति कथमनयोरैक्यम् ?, कथश्च प्र: माणलक्षणेन चारितार्थ्यादयुक्तो नयस्य पृथग्लक्षणनिर्देशः ।।
अत्र चायं कण्टकोद्धारप्रकारलेशः।
नन्वर्थैकदेशं गृह्णानोपि नयो न प्रमाणादर्हति भेत्तुम् , वस्तुव्यवसायित्वात् वस्तुव्यवसायित्वेपि प्रमाणत्वानङ्गीकारे सम्प्रतिपन्नानामपि प्रामाण्यानुपपत्तेः । अथ तद्गृह्यमाणोऽर्थै कदेशो न वस्तु, एवं तह्यवस्तुविषयत्वेन मिथ्याज्ञानमेव · नय आसज्यतेति । तन्न । अर्थैकदेशो वस्तुतो नास्ति वस्तु, नाप्यवस्तु, अपितु वस्त्वंशः ।
तथा चोक्तम्"नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते बुधैः । नाऽसमुद्रः समुद्रो वा समुद्रांशो यथैव हि ॥ १॥ तन्मात्रस्य समुद्रत्वे शेषांशस्याऽसमुद्रता । समुद्रबहुना वा स्यात्-तत्वे काऽस्तु समुद्रवित् ?" ॥२॥ इति एवं च षचन्ति वाचकवरश्रीयशोविजयगणयः-- "अयं न संशयः कोटेरैक्यान च समुच्चयः । न विभ्रमो याहत्वादपूर्णत्वाच्च न प्रमा" ॥ १॥ न समुद्रोऽसमुद्रो वा समुद्रांशो यथोच्यते । ....... नाऽप्रमाणं प्रमाणं वा प्रमाणांशस्तथा नयः ॥२॥ इति ।
नयस्वरूपविहीनस्तद्वदाभासमानो नयाभासः । स च स्वाभिसंहितांशप्रतिपक्षांशं निराकरिष्णुरामतः । यथान्यतीथिकानां सदसदायेकान्तद्योति वाक्यपेटकमिति ॥५॥