________________
१३८
प्रमाणपरिभाषा
शब्दादयः स्वयमसन्त एवार्थान्तरभूतया सत्तया संसृज्यमानाः सन्ति नाम तुरङ्गशृङ्गादेरपि तथाभूतत्वानुषक्तेः । एकद्रव्यत्वं च शब्दस्य गुणत्वे नभस्यैवैकद्रव्ये समवेतत्वे च सिद्धे सिद्धिपथमारोहति, तत्तूक्तप्रकारेण विचारासहत्वात् प्रत्यक्षेपि नातस्तदसिध्यत् । एकद्रव्यत्वप्रसाधकं चानुमानमूचानमनेकद्रव्यः शब्दः अस्मदाद्यध्यक्षत्वे सति स्पर्शवत्वाद् घटवत् , इत्यनुमानेन बवाधानमेव ।
यत्तु कार्यद्रव्यान्तरानाविर्भावप्युत्पत्तिमत्वाद् इति हेतुना प्रतिचिक्षिपाणं कार्यद्रव्यपृथिव्यादीनां विशेषगुणवं तदपि वार्तमेव, शब्दस्य हि नभोगुणत्वव्यासेधे कार्यद्रव्यान्तरानाविर्भावेप्युत्पादखीकारे शब्दोऽनाधारः स्यात् , तथा च बुद्ध्यादयः कचिदाश्रिताः गुणत्वात् इति व्यभिचारकलङ्कितमेव स्यात् , ततोऽभ्युपेया कार्यद्रव्यान्तरोद्भवस्तत्रेत्यसिद्धिः साधनस्य । अकारणगुणपूर्वकत्वमपि अस्मदादिबाह्येन्द्रियग्राह्यत्वे सति गुणत्वेन हेतुना पटीयरूपादिकस्येव शब्दस्य विपरीतार्थप्रसाधकत्वेनासानमेव । अयावद्र्व्यभावित्वमपि विरुद्धार्थप्रसाधनत्वाद् विरुद्धमेव, अस्मदादिवाह्येन्द्रियाध्यक्षत्वे सत्ययावद्र्व्य भावित्वेन हेतुना पटीयरूपादिवत् शब्दस्य स्पर्शाश्रयद्रव्यगुणत्वोपपत्तेः । अस्मदादिपुरुषान्तरप्रत्यक्षत्वे सति पुरुषान्तराप्रत्यक्षत्वादिति चास्वाद्यमानेन रसादिना व्यभिचार्येव । .
यत्तु अस्मदादिप्रत्यक्षत्वेन हेतुना परमाणुगुणत्वं शब्दस्य व्यासिद्धं तत्र चिन्तनीयमायुष्मता यथास्मदादिप्रत्यक्षत्वे शब्दस्य परमाणुविशेषगुणत्वस्य विरोधस्तथा गगनगुणत्वस्य कथं न ?; न ह्यस्मदादिप्रत्यक्षत्वं परमाणुविशेषगुणत्वमेवापास्यति शब्दस्य, नाकाशविशेषगुणत्वम् । उभयत्राप्यावशेषात् । यथैव हि परमाणुगुणो रूपादिरस्मदाधनध्यक्षस्तथान्तरिक्षगुणो महत्वादिरपि ।