________________
न्यायालङ्कारालङ्कृता। .. १३७ भिद्य प्रसर्पिणा मृगमदादिगन्धद्रव्येण व्यभिचार्येव । तृतीयतुरीयौ पुनरुल्कादिना धूमादिना च तथैव । पश्चमस्तु यथाऽसिद्धस्तथा प्रादीदृशाम । अस्मदादिप्रत्यक्षत्वेन रूपादिवत् शब्दस्य गगनगुणत्वानुपपत्तेस्तद्वदेवेन्द्रियार्थत्वेन पौगलिकत्वसिद्धेश्चेति सिद्धं शब्दः पौद्गलिक इति न गगनगुणः, गगनगुणत्वे हि गगनस्यातीन्द्रियत्वेन शब्दस्य तद्गुणभूयं भेजानत्वेन कुतः प्रत्यक्षप्रत्ययः प्रादुःष्यात् ?; न खल्वतीन्द्रियगुण ऐन्द्रियको दृष्ट इष्टो वा। न च दृष्टेष्टबाधितार्थमभ्युपयन्ति कृतधियः। तथा च प्रयोगः । येऽत्यन्तपरोक्षगुणिगुणाः नामी अस्मदायध्यक्षाः, यथा परमाणुरूपादयः, अत्यन्तपरोक्षगुणिगुणश्च पराभिप्रायेण शब्दः, इत्यमुनाप्येवमेव भूयेत । न च वायुस्पर्शन व्यभिचारोद्भावनं भव्यम् , तस्य प्रत्यक्षत्वाद्, इतरथा स्पर्शोऽत्र शीतः खरो वेति हि प्रत्यय उदियात् , न पुनर्वायुरिति ।
कथञ्चिदेकत्वे च गुणगुणिनोर्गुगप्रतिभासे न्याय्य एव गुणिप्रतिभासः। स्पर्श विशेषपरिणामरूपस्यैव च वायुत्वात् कथं नास्य प्रत्यक्षत्वम् । कथं च निविडतरघटितकपाटसंपुटे गवलकुवलयकलकण्ठीकण्ठकाण्डकृष्णान्धकारैकार्णवीभूते कारागेहे क्षिप्तस्य पुंसः तत्रत्यघटादिवस्तुनः स्पर्शनेन प्रत्यक्षत्ववाचोयुक्तियुक्ता स्यात् ?; तत्र हि स्पृष्टेनापि घटादिनानध्यक्षेणैव भवदभिप्रायेण भूयेत, न चामुमेवंविधं तदानीं व्यवहरति कश्चिद्विपश्चित, सर्वेषां तत्प्रत्यक्षत्वे तदानीं निर्विवादाभिप्रायात् । प्रयोगान्तरं च, यदस्मदादिप्रत्यक्षं तन्नात्यन्तपरोक्षगुणिगुणः, यथा घटीयरूपादिः, तथाच शब्द इति । यत्रोक्तं सत्तासम्बन्धित्वादिति, तत्रापि वक्तव्यं किं स्वरूपभूतया सत्तया सम्बन्धित्वमभ्युपजग्मानमास्ते ? आहोस्विद् अर्थान्तरभूतया ?; प्रथमे सामान्यादिर्व्यभिचारापातः, तेषां तथाभूतत्वेपि गुणत्वाभावाः द्वितीयस्त्वसङ्गत एव, नहि